________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
तेषामा रक्षभूतं तु पूर्व दैवं नियोजयेत् ॥
रक्षांसि विलुम्पन्ति श्राद्धमा रक्षवर्जितम् ॥ २०४ ॥ रक्षैव आ रक्षं तत्प्राप्तं आ रक्षभूतं आ रक्षार्थमित्युक्तं भवति । उपमायां वा भूतशब्दः । यर्दा तु रक्षार्थं अतः पूर्व दैवं ब्राह्मणं नियोजयेत् निमन्त्रयेत आसने चोपवेशयेत् । अपरोऽर्थवादः । रक्षांसि अश्यानि कानिचित्सत्वानि इतिहासे क्रिया ५ विमलम्पन्ति आच्छिन्दन्ति पितृम्यः श्राद्धम् । के पुनर्देवा उद्देश्याः ? गृह्ये तावत् “ विश्वान्देवान् हवामहे " इतिमन्त्रस्य विनियोगाद्विश्वेदेवाः प्रतीयन्ते । पुराणेऽप्युक्तं " विश्वेदेवा इति श्रुतिरिति " ॥ २०४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२७१
दैवाद्यन्तं तदीत पित्राद्यन्तं न तद्भवेत् ॥
१०
I
पित्र्याद्यन्तं त्वमानः क्षिप्रं नश्यति सान्वयः ॥ २०५ ॥ आदिश्च अन्तश्च आन्द्यतौ । दैवं आद्यन्तावस्येति दैवाद्यन्तम् । दैवेन कर्मणा औदिरुपक्रमः श्राद्धस्य कर्तव्यः । अतश्च निमन्त्रणं देवानां पूर्वं कर्तव्यम् । अंतः समाप्तिः । विसर्जितेषु पित्र्येषु ब्राह्मणेषु पश्चाद्देवानां विसर्जनं कर्तव्यम् । गन्धादिदानेऽपि दैवोपक्रमतां मन्यन्ते । न तु तेषां पदार्थानां दैवेनोपक्रमसमाप्ती संभवतः आवृत्ति - प्रसङ्गात् । प्रयोगधर्मश्चायं दैवाद्यन्तता । नँ प्रतिपदार्थधर्मः । पदार्थानां तु गन्धमाल्यादीनां १५ दैवोपक्रमं विशेषेण कर्तव्यमुद्दिश्यते । तावत्प्रावृत्तिकेनैव क्रमेण सिद्ध्यति । निमंत्रणं तावदैवपूर्व कर्तव्यं यत एव प्रथमः पदार्थ आरब्धस्तत एवान्येषामारंभो युक्तः पदार्थः पदार्थान्तरारम्भं नियच्छति । यतस्तदुक्तं ' प्रकृत्या कृतकालानां गुणानां तदुपक्रमादिति ' पदार्थधर्मः । तच्छ्राद्धकर्म त कुर्यात् । परिशिष्टोऽर्थवादः । पित्र्याद्यन्तं न तद्भवेत् । दैवाद्यन्तत्वस्य विहितत्वात् पित्र्याद्यन्तप्रतिषेधो ऽर्थवादतया २० लौकिकवाक्यवन्नेयः । लोके हि किंचिद्विधाय तद्विपरीतमप्राप्तमपि निषेधति । क्रिया हि द्रव्यं विनयति नाद्रव्यमिति । क्षिप्रं नश्यति सान्वयः : संताना फलप्रदर्शनरूपोऽयं निन्दार्थवादः । अतश्च सर्वे परिवेषणादिदेव पूर्वकं कर्तव्यम् ।
यत्त्वन्तरा भक्ताद्युपनयनं पिपासतां च पानादिदानं तद्यस्यैवेच्छा प्रथममुपजाता तस्मा एवोपनेतव्यं अनार्थिनस्तदनुरोधेनोपनीयमाने प्रधानविधिर्वाधः स्यात् 'हपर्येत् ब्राह्मणा- २१ निति ” । तथा कश्चिन्मधुररसप्रियोऽपरोऽम्लरस सात्म्यस्तत्र भक्ष्यं भोज्यं च विविधं पानानि सुरभीणि चेति बहुषु पानकेषु सत्सु यद्यन्यानुरोधेन नैं अन्यत्र रससात्म्यमापा
For Private And Personal Use Only
१ अ-क-ख-ड-क्ष-यदावनुरक्षार्थ; र-यदा चतुर्थरक्षागतः । २ अ-क-ख-ड-क्ष- निमन्त्रयेतासनायो. पवेशयेत् । ३ क-र-इतिहासप्रक्रिययोर्विलुम्पन्ति । ४ अ-क-ड-फ-क्ष-पुराणेत्युक्तं - ख पुरुषेत्युक्तं । ५ फ-देवो । ६ र - आयः । ७ फ- दैवपूर्व कर्तव्यं यत एष पदार्थधर्मः । पदार्थानां तु गन्धमाल्यादीनां देवो. पक्रमताप्रावृत्तिकेनैव क्रमेण सिध्यति । निमन्त्रणं तावद्दैव पूर्व कर्तव्यं । ८ र - तच्छुध्धं; फ-तच्छ्राद्धकर्मा हे तत्कुर्यात् । ९ फ-न पित्राद्यन्तः । १० इदं पदं फ-पुस्तके न दृश्यते । ११ र विधि, स्यात् । १२ फ-अन्यत्र |