________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
कालयंति अपवर्जयन्ति कर्मेति सुकालिनः । कर्मापवर्गहोमदेवता “ अयाश्चाग्नेस्यनभिशस्तीश्चेत्यादि "विहिताः ॥ १९७ ॥
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः॥
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ १९८ ॥ हविर्भुज एव हविष्मन्तः। कविर्भृगुः । 'काव्यं वदन्त्युशनसमिति स्मरंति भार्गवंच। ५ यथैता देवता ऋषीणां पुत्रा एवं त्वदीयाश्चापि पितरो देवतारूपा एवेति माऽवमंस्थाः ॥१९॥
अनमिदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा ॥
अग्निप्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ १९९ ॥ * अनग्निदग्धः सोमः न ह्यग्निना तस्य पाकोऽस्ति तेन या देवता इज्यन्ते ता अप्यनग्निदग्धाः समृद्धास्तद्गुणत उच्यन्ते । एवमग्निदग्धानि चरुपुरोडाशादीनि हवींषि १० अग्निना पच्यन्ते । तैर्या देवता इज्यन्ते ता अग्निदग्धाः । पूर्ववदेवमभिसंबन्धः क्रियते । ये अग्निदग्धा उच्यन्ते तानग्निदग्धान्निर्दिशेत् । ये अनग्निदग्धास्तान्त्सोमपानेव निर्दिशेत् । एवं काव्यान्वर्हिषद इति। कवेः पुत्राः काव्यास्ते च “सोमपास्तु कवेः पुत्राः" (श्लो. १९८) इत्युक्ता बर्हिषदोऽत्रिना उक्ताः। नायमेवकारो यथादेशं द्रष्टव्यः। तथा ह्ययमर्थः स्यात् । विप्राणामेवेति पितरो न क्षत्रियादीनाम् । तच्च प्रागुक्तेन विरुध्यते । न चैते वर्णभेदेन १५ पितृत्वेनोक्ताः । येन तस्मादाच्छिद्य ब्राह्मणादिसंबन्धिता एषामुच्यते । तस्मादपकृष्य एवकारोऽग्निष्वात्तानेव सौम्यानवे निर्दिशेदित्येवं संबन्धनीयः।विप्रग्रहणमनुवादत्वात्क्षत्रियादिप्रदर्शनार्थम् । एवंनामानश्चैते पितरो वेदे श्रूयन्ते " अग्निष्वात्ताः पितरो येऽग्निदग्धा ये अनग्निदग्धा" इति तान्मन्त्रानुदात्हत्य विवृणोति ।
अथ चैवं संबन्धः क्रियते । य एतैः शब्दैः पितर उच्यन्ते तान् विप्राणामेव २० निर्दिशेत् स्वपितॄन् । न च शब्दभेदेनार्थभेदशङ्का कर्तव्या। विप्रग्रहणमधिकार्युपलक्षणार्थ प्राधान्यात् । प्रधानेन ह्युपलक्षणं भवति राजा गच्छतीति ॥ १९९ ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः॥
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ २०० ॥ एते तु मुख्या गणाः सोमपादयः पितृणाम् तेषामपि पुत्रपौत्राः अनन्ता २५ विद्यन्ते । तेऽपि पितर एव । अस्माद्वा नियमवचनादेतद्गम्यते । न सोमपादय उद्देश्याः । यदि हि तेषामपि पुत्रपौत्राः पितरस्ते ह्युदेयाः स्युर्न च तेषां किंचिन्नामधेयमाम्नातं तस्मा* अग्निष्वात्ताहुतैस्तृप्ताः सोमपास्तुतिभिस्तथा। पिण्डैबर्हिषदः प्रीताः प्रेतसुद्विजभोजने ॥
१ अ-क-ख-क्ष-सोमे । २ अ-क-ख-ड-क्ष-यायदेवता । ३ फ-मायम् । ४ फ-सम्बन्धिनः पितृत्वेनोक्ता येन तेषामुच्यन्ते। ५ फ-ते च। ६ र-तान्मंत्रः सुहृद्भूत्वा विवृणोति । ७ फ-अस्मानियम वचनाम् । ८ अ-ख-ग-क-क्ष-फ-उद्देश्यास्युः ।
For Private And Personal Use Only