SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ मेधातिथिमाष्यसमलंकृता । [ तृतीयः गोत्रं आदिपुरुषः संज्ञाकारी ख्याततम इति । अतस्तेन गोत्रेण श्राद्धादौ व्यपदिश्यन्ते । आदिमत्ताऽपि नामधेयेनैव । न तु तेषां क्षत्रियाणां हविर्भुगित्यादिगोत्रतया श्राद्धादौ व्यपदेशमर्हन्ति । येऽप्याहुरज्ञातपित्रादिनामकास्तेषामेतैः शब्दैः श्राद्धादि चोद्यते “सोमपानाह्वयामि सोमपेभ्यः स्वधेति" एतदपि न सम्यक् । उक्तं हि " नामान्यविद्वास्ततः पितामहप्रपितामहेति"। यदि चार्थवादतया न प्रकृतशेषत्वेनार्थवत्ता लभ्येत तत एव कल्पा आश्रि. येरन् । न त्वेकवाक्यतयाऽन्वये संभवति वाक्यभेदकल्पनेनार्थो न्याय्यः ॥ १९४ ॥ विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ॥ अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥१९५ ॥ १० श्राद्धार्थवादा अमी श्लोकाः । अशेषेणैकवाक्यत्वात् । न हि साध्यानां पितरः श्राद्धसंप्रदानं शिष्यन्ते । देवतात्वात्साध्यानां च देवतानां कर्मस्वधिकारो न नियोज्यत्वाभावात् । न हि देवता नियोक्तुं शक्यते देवतात्वहानिप्रसंगात् । अधिकारे सति प्रतिपत्तव्यं कर्तृत्वम् । कर्तृत्वे च कुतः सम्प्रदानभावः । न चान्यदेवतारूपम् । विराजः सुताः विराट्सुताः सोमसदो नाम ते साध्यानां पितरः । ईदृशमेव नित्यं कर्मावश्यं १५ कर्तव्यम् । यत्साध्याः पूर्वदेवाः कृतकरणीयतया अपि पितॄनर्चयन्ति । अग्नौ पकं चरुपुरो डाशादिकं स्वदन्ते । अग्निष्वात्ताः देवानामिन्द्राग्नयादीनां पितरः। मरीचेनाता मारीचाः। लोकविश्रुताः मसिद्धाः ॥ १९५ ॥ दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ १९६॥ २० सर्व एते दैत्यादयः शास्त्रांनधिकृताः अर्थवदिार्थ संकीर्त्यन्ते । तेषां च स्वरूप मितिहासप्रसिद्धम् । सुपर्णा पंक्षिविशेषाः । किन्नरा अश्वमुखास्तिर्यञ्चः । एवंविधमेतन्नित्यं कर्म । यदैत्यदानवरक्षांसि यज्ञविध्वंसकराण्यपि नातिवर्तन्ते तथा तिर्यञ्चोऽप्यसंस्मृतिकाः । अत्रेाता बर्हिषदो नाम ॥ १९६ ॥ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः॥ वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ १९७ ॥ उक्तार्थः प्रागेवायं श्लोकः । सोमं पिबन्ति ज्योतिष्टोमादि । देवतास्त्विद्रादयः । हविर्भुजश्चरुपरोडाशादिदेवताः। आज्यपा आधारावाज्यभागप्रयाजादिदेवताः। सुकालिनः १फ-बोधने । २ फ-उक्ता हि। ३ अ-क्ष-क-व-याज्यत्वाभावात्। ४ फ-पित्र्यं । ५ फ-सर्वदेवाः । ६ फ-कृतकरणीयाः । ७ फ-अदन्त्यतः । ८ फ-देवतानाम् । ९ क-अत्रजाः । १० इ-शास्त्रनंगीकृताः। 11 अ-क-ख-ड-क्ष-अर्थवादाः । १२ क-ख-अ-क्ष-यक्षविशेषाः। १३ फ-पित्र्यं । १४ अ-कख-ड-क्ष-असंज्ञाः स्मृतिकः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy