SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुस्मृतिः। अध्यायः] २६७ मावमंस्थाः मृतमनुष्यरूपाः पितरो येन न तर्पिताः श्राद्धे के दोष करिष्यन्ति, तर्पिता वा कं गुणमिति । यत एते महाप्रभावाः सर्वस्य जगतः प्रभुर्हिरण्यगर्भस्तस्य पुत्रो मनुः तस्यैते पौत्रा अत एव ऋषीणां चेत्युच्यते । न मनोर्येकचिदन्ये पुत्राः किंतर्हि षयस्ते च प्रथितप्रभावाः । ऋषयश्च प्रथितप्रभावा मरीच्यादयः । तेषां पुत्राः पितरो सुविधाश्च प्रतिपत्तारो य एतादृशेभ्योऽर्थवादवाक्येभ्यः प्रवर्तन्तेतराम् । ५ ये च व्याचक्षते । सोमपादिदृष्टिः पितृषु कर्तव्येति ते प्रमाणाभावादुपेक्षणीयाः । न हि यथाऽऽदित्ये ब्रह्मदृष्टिः उपदिश्यते एवमिह तादृशं किंचन वचनमस्ति । येऽप्याहुः 'गृहीत्वा गोत्रनामनी पितृभ्यो दद्यादिति' तचैतद्गोत्रं सोमपाः इत्यादिवर्णभेदेन । तदप्ययुक्तम् । नामनिर्देशोऽयं न गोत्रनिर्देशः सोमपानामितिश्रवणात् । गोत्रनामधेयत्वेऽपि नामशब्द उपपद्यत एवेति चेत् । एवं तर्हि गोत्रनिर्देशवैयधि- १० करण्यं स्यात् । पितॄणां सोमपा गोत्रमिति । न तु पितरः सोमपा इति । ____ अथाभेदोपचारेण गोत्रेण सन्तानव्यपदेशो दृष्ट इत्युच्यते । यथा वभ्रमन्दुरिति । अत्रोच्यते। इदमिह निरूप्यं किमेतद्गोत्रं नाम आदिपुरुषः संज्ञाकारी विद्यावित्तशौयौदार्यादिगुणयोगेन ख्याततमो येन कुलं व्यपदिश्यते पुत्रिकानुलिङ्गा इति । एवं तर्हि सर्वेषामेव ब्राह्मणादीनामवान्तरगोत्रभेदाः सन्तीति। स्मरन्ति च ।यादृशं पुरुषं तत्सन्ताननाः १५ पुरुषा वयममुष्यकुले जाता इत्यतस्तेनैवें व्यपेदशो युक्तः । न हि सोमपा वयमिति कश्चिद्गोत्रत्वेन सोमपान्स्मरति यथा मृगुर्गर्गगालवान् । ब्राह्मणानां च तैरेव गोत्रव्यपदेशो युक्तः । तानि हि मुख्यानि गोत्राणि । रूढिरूपेण न तत्र गोत्रशब्दः प्रवर्तते । न हि तेषां गोत्रत्वे एतल्लक्षणमस्ति । आदिपुरुषः संज्ञाकारी गोत्रमिति । अनादित्वादेतद्गोत्राणां ब्राह्मणादिनातिवत् । न हि पराशरजन्मत ऊर्ध्वं पाराशरव्यपदेशः केषांचिद्राह्मणानाम् । २० एवं सति आदिमत्ता वेदस्य प्रसज्यते। अतो नित्यत्वादेतस्य गोत्रस्य गोत्रव्यपदेशस्योदकतर्पणादौ तदेव गोत्रं श्रयितव्यम् । ये तु संज्ञाकारिणस्ते न नित्याः । इदानींतनाः न च नित्ये संभवत्यनित्यसोमपादानं वैदिके कर्मणि युक्तम् । अतो ब्राह्मणैर्यथागोत्रं गााय गर्गगोत्राय वा स्वधा इदं उदकमऽस्त्विति एवमादिशब्देनोद्देशं कृत्वा ततो नामोच्चार्य उदकदानादि कर्तव्यम् । क्षत्रियादीनां नैतादृशो गोत्र- २५ व्यवहारो विद्यते । न हि यथा ब्राह्मणो गोत्रं नियतं स्मरति एवं क्षत्रियादयः। तस्मात्तेषां लौकिकमेव १फ-मैवं मंस्थाः। २ फ-समुद्दिश्यते । ३ ड-क-यथाहुः । ४ फ-नामधेयत्वेति । ५फ-उत्पद्यते । ६ फ-निर्देश्ये । ७ क-सोमपानां गोत्रमिति ! ८ फ-गोत्रसंतान- ९फ-इत्येतत्स्वेनैव-1१०फ-इदानीतना नित्या इत्येवं भवत्यनित्यानां सोमपानामुपादानं... । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy