SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५ अध्यायः] मनुस्मृतिः । केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ॥ कथंचिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ १९० ॥ केतित उपनिमन्त्रितः। हव्ये कव्ये दैवे पिये च। अङ्गीकृत्य निमन्त्रणमभ्युपगम्य श्राद्धभोजनम् । यदि कथंचिदतिक्रामति भोजनकाले न संविधीयते ब्रह्मचर्य च न रक्षति तदा सूकरतां गच्छति स ब्राह्मणः । कथंचित्कामाद्विस्मृत्य वा । यथान्याय- ५ मिति वृत्तपूरणम् । अन्ये त्वाः । प्रार्थ्यमानस्यानभ्युपगम एवातिक्रमः । तथा च श्राद्धकल्पे उक्तम् “ अनिन्दितेनामन्त्रितो नातिकामेत् " इति । एतच्चायुक्तम् । लिप्सया प्रवृत्तिः श्राद्धे न पुनः शास्त्रतः । तत्र सत्यां लिप्सायां यदि नाङ्गीकरोति तदा को दोषः ॥ १९०॥ आमंत्रितस्तु यः श्राद्ध वृषल्या सह मोदते ॥ दातुर्यदुष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥ १९१ ॥ वृषलीशब्दः स्त्रीमात्रोपलक्षणार्थः सामान्येन ब्रह्मचर्यस्य विधानात् । अतो ब्राह्मण्यपि वृषल्येव । वृषस्यति चालयति भर्तारमिति यौगिकत्वं दर्शयति । अतोऽयमर्थः । भोजनमङ्गीकृत्य तदर्हः यः स्त्रिया सह मोदते रमते तया सह सुरतसंभोगेच्छया संलापालिङ्गानाद्यपि यो जनयति तस्यायं दोषः । दातुः श्राद्धस्य कर्तुः यदुष्कृतं पापं १५ किंचित्तत्सर्वं तस्मिन् सङ्कामति । अनिष्टफलयोगमात्रमनेन निर्दिश्यते । अन्यथा यत्र दाता पुण्यकृत् तत्र न कश्चिद्दोषः स्यात् । मोदनं हर्षोत्पत्तिः । तेन संलापालिङ्गनाद्यपि न कर्तव्यम् ॥ १९१ ॥ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ॥ न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ १९२ ॥ २० अक्रोधनाः क्रोधवर्जिताः । शौचपराः शौचं शुद्धता मृद्वारिभ्यां प्रायश्चितेनान्तःशुध्या वा । सततं शुद्धेविशेषणम् । तेन निष्ठीवनादावाचमनादि तत्क्षणमेव कर्तव्यम् । ब्रह्मचारिणः स्त्रीसंभोगं परिहरति । न्यस्तशस्त्राः न्यस्तं त्यक्तं शस्त्रं यैः । शस्त्रग्रहणं दण्डपारुष्योपलक्षणार्थम् । महाभागाः औदार्यधनित्वादिगणयोगो महाभागता । यत एवंविधं पितॄणा रूपं ब्राह्मणानाविशन्ति अतस्तैस्तद्रूपधारिभिर्भवितव्यमित्यर्थवादनायमर्थो २५ विधीयते । पूर्व पूर्वदेवताः पितरो नाम कल्पान्तरेण तेऽप्येते देवता एवेति स्तुतिः । पूर्वकालं पितॄणामर्चनीयत्वात्पूर्वग्रहणम् ॥ १९२ ॥ १ क-हव्ये द्रव्ये। २ ख-कामेत् । ३ क-रक्षीति; अ-ड-क्ष-चरति; क-ख-चलति।। फ-क्ष-तच्च । ५ क-ख-ड-लिप्साया; क्ष-लिप्सायां । ६ अ-क-ख-त-स-चलती ड-चलयति । ७ ड-भोक्ष्ये इत्यंगकृित्य । ८ फ-अ-क-ख-स-तदाहर्षात् । ९ फ-अदृष्टफलं। १० अ-क-ख-ड-क्ष-योगमानम् ११र-अर्थशुध्या। १२ अ-क-ख-ड-क्ष-य एवंविधं; क-अत एवंविधं । १३ ड-अनुवादेन । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy