________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥ ब्रह्मदेयानुसन्तानो ज्येष्ठसामग एव च ।। १८५ ॥
त्रिणाचिकेतं यजुर्वेदैकदेशः तद्व्रतं च । तद्व्रताचरणेन तदध्यायी त्रिणाचिकेतः । अत्रापि लक्षणयैव उच्यते । पुरुष
।
न चैवं मन्तव्यं तावन्मात्रेण पङ्क्तिपावनत्वम् । किं तर्हि सति श्रोत्रियत्वादिगुणयोगे- ५ अधिकोऽयं गुणो द्रष्टव्यः पंक्तिपावनहेतुतया । पञ्चाग्निविद्या नाम छान्दोग्योपनिषदि विद्याऽऽम्नायते (५।१०।९ ) “स्तेनो हिरण्यस्येत्यादि" यस्याः फलं तदध्ययनसंत्रन्धात् पुरुषोऽपि पञ्चाग्निः पूर्ववत् । अन्ये तु पञ्चाग्नयो यस्य त्रयस्त्रेताऽग्नयः सभ्यावसथ्यौ च द्वौ पञ्चाग्निः । तत्र सम्यो नाम यो महासाधनस्य शीतापनोदार्थमेव बहुषु देशेषु व्यवहियते । त्रिसुपर्णो नाम मंत्रस्तैत्तिरीयके बाह्वृच्ये च । “ ये ब्राह्मणास्त्रिसुपर्णे पठन्ती " त्यादिः । षडङ्गो वेदस्तं १० वेत्तीति षडङ्गवित् । ब्राह्मधर्मेण आहूय दानेन या दत्ता तस्याऽनुसन्तानस्ततो जातः । ज्येष्ठसामगच ज्येष्ठे दो हानि आरण्यके सामानि तानि गायति स एवमुच्यते । अत्रापि सामगानेन तद्व्रताचरणेन वा पुरुष इत्युच्यते ॥ १८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ॥
शतायुचैव विज्ञेया ब्राह्मणाः पंक्तिपावनाः ।। १८६ ॥
२६३
For Private And Personal Use Only
१५
वेदस्यार्थं जानाति । ननु च षडङ्गविदुक्त एव । सत्यम् । अङ्गैर्विना स्वयमप्यूहति प्राज्ञया यः स इह वेदार्थविदभिप्रेतः । अथवा तस्यैवायमनुवादः पुनः पुनः क्रियते । न वेदर्थज्ञानेन विना सत्यप्यन्यगुणयोगे श्राद्धार्हाः । प्रवक्ता व्याख्याता वेदार्थस्यैव । ब्रह्मचारी सहस्रदः। अविशेषोपादानेन गवां सहस्रं यो दत्तवान् । इदं चं युक्तं सहस्रशब्दस्य बहुनामत्वात् बहु यो ददाति उदारो वेत्यर्थः । न हि गवां संख्येयत्वे प्रमाणमस्ति । २० वेदेऽप्युक्तं “ गावो वै यज्ञस्य मातर " इति । अविशेषचोदनायां गावः प्रतीयन्ते । शतायुर्वृद्धवयाः । स हि परिपक्ककषायतया पावनत्वमश्नुते शतमायुरस्येति शतायुः । वर्षाणि संख्येयानि प्रसिद्धेः । अथवा शतशब्दो बह्वर्थः । बह्वायुः । वृद्धवयस्त्वं चात्राभिप्रेतम् । उक्तं तु गौतनी “ युवभ्यो दानं प्रथमं एके पितृवत् " इति ( अ. १५ सू. १०-११) । एवमर्थमेव च ब्रह्मचारिग्रहणमिह व्याचक्षते । स हि पूर्ववया भत्रति ॥१८६॥ २५
१ त्रिणाचिकेताख्यो वेदभागोऽध्वर्यूणाम् । " पीतोदका जग्धतृगा " इत्यादि तदध्ययनसम्बन्धात् पुरुषोऽत्र त्रिणाचिकेत उच्यते । अन्ये च त्रिणाचिकेतमधीयानां न येनाधीतं नाचिकेतचरितं स त्रिणाचिकेतः । ड-त्रिणाचिकेतेतमधीयानं व्रतमाम्नातम् । तद्येना चरितम् य- । २ ड -अथर्ववेदस्योपनिषद्यान्नायते । ३ र ड-तद्वेदनसम्बन्धात् । ४ र विक्रियते । ५ र आज्यदोहानि । ६ फ- तावदर्थज्ञानेन ७ र - इदं तु प्रयुक्तम् । . विना सत्यप्यन्यगुणयोगे श्राद्धानहः । ८ फ-केभ्यो दानं प्रथमं पितृभ्य इत्येक इति ।