SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय:] मनुस्मृतिः। ___ २६१ पंक्तिमहन्तीति पंक्त्याः । सद्भिरेकत्रासनभोजनाद्यर्हता पंक्त्यता तदभावादपंक्त्यः। स यावतः पंक्त्यान्विद्वत्तपस्विश्रोत्रियान् भुञानाननुपश्यति तावतां न तत्र पितृतप्त्याख्यं फलं भवति । अतः स्तेनादयः श्राद्धं कुर्वता ततः प्रदेशादपसारणीयाः। बालिशो मूर्खः ।। १७६ ॥ वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च ॥ पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ १७७ ॥ ननु चान्धस्य कुतो दर्शनम् । येनेदमुच्यते वीक्ष्यान्धो नवतेरिति । सत्यम् । तत्प्रदेशसंनिधानमनेन लक्ष्यते । यावान् देशश्चक्षुष्मतो दृष्टिगोचरस्तावतो देशादनावृतादन्धो विवासनीयः । काणः षष्टेः । नात्रायमर्थोऽत ऊर्ध्व भाज्या इति । केवलं सङ्ख्यापचयेन दोषलाघवं प्रायश्चित्तविशेषार्थ ज्ञाप्यते । श्वित्री कुष्ठी भण्यते। पापरोगी प्रसिद्धः॥१७७॥ १० यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्छूद्रयाजकः ॥ तावतां न भवेदातुः फलं दानस्य पौर्तिकम् ॥ १७८ ॥ यावतो ब्राह्मणान् स्पृशत्यङ्गैः पतिं गतः अत्राप्यङ्गस्य स्पर्शनं न विवक्षितम् । किं तर्हि पूर्ववत्तद्देशसंनिधिः । पौर्तिकं फलं पूर्ते मवं पौर्तिकम् । बहिर्वेदिदानाद्यत्फलं तत्पौर्तिकम् ॥ १७८ ॥ वेदविचापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ॥ विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ १७९ ॥ प्रसङ्गाच्छूद्रयाजकस्याप्रतिग्राह्यताऽनेन कथ्यते । वेदविदपि यदि तस्य शूद्रयाजकस्य संबन्धिनो द्रव्यस्य प्रतिग्रहं करोति। लोभादित्यनुवादः । सोऽपि विनाशं ब्रजति । अभिलषितेनार्थेन वियुज्यते धनपुत्रपशुशरीरादिना । किंपुनरवेदवित् । वेदविदः किल प्रतिग्रहे नातीव २० दोष इति वक्ष्यति। आमपात्रमपक्कं शरावादिभाननम् । अम्भसि नले क्षिप्तम् ॥१७९॥ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥ नष्टं देवलके दत्तमप्रतिष्ठं तु वाधुषौ ॥ १८० ॥ तस्यां जातौ जायते यत्र विष्ठाऽस्य भोजनं भवति । एवं भिषजे । नष्टं निष्फलं उद्वेगकरं वा । नष्टं हि द्रव्यं उद्वेगं जनयति । अविद्यमाना प्रतिष्ठा स्थितिर्यस्य २५ तदप्रतिष्ठम् । नानारूपैः शब्दैरेवविधस्य दानस्य नैष्फल्यम् । कर्तुश्च दोषसंवन्धः प्रतिपाद्यते । नष्टमप्रतिष्ठमिति नानयोराभेदशङ्का कार्या कार्यविभेदात् ॥ १८० ॥ यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥ भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ १८१ ॥ १फ-तु। २ र-आभिप्रेतेन । ३ र-न दोषसम्बन्धः। र-नानयोरपिभेदाशङ्का कार्या, कार्याभेदात् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy