________________
Shri Mahavir Jain Aradhana Kendra
-२६०
५
२०
www. kobatirth.org
२५
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः
केचित्तु नैवायं समान्नाये श्लोकोऽस्तीत्याहुः । अपरिपूर्ण च लिङ्गं ब्रुवते । द्वयस्य लक्षणे कर्तव्ये नापूर्वकारिणामेकस्योपपद्यते । स्मृत्यन्तरे चैतदुभयं लक्ष्यते
पत्यौ जीवति तद्गृहे स्थितायां तद्भार्यायां यो गूढोत्पन्नः भंग्या उपपतित्वेन वा पत्युः क्षमया जायते सोऽन्यजातः कुण्ड उच्यते । मृते तु गोलकः । एतावनियुक्तासुताविति केचित् । तदयुक्तम् । तयोरब्राह्मण्या देवाप्राप्तिः । तस्मान्नियोगोत्पन्नौ कुण्डगोलकौ । कथं १० पुनर नियुक्तासुतयोरब्राह्मण्यमितरयोस्तु ब्राह्मण्यं जातिलक्षणे पत्नीग्रहणात् । सर्ववर्णेषु तुल्यासु पत्नीष्विति संबन्धिशब्दश्च पत्नीशब्दो भर्तृशब्दवत् । यज्ञसंयोगे च पत्नीशब्दो पोह्यते न चान्यदीयया भार्यया सहान्यस्य यज्ञाधिकारः । यद्येवं नियोगोत्पन्नयोरपि समानन्यायत्वान्नैव ब्राह्मण्यम् । दशम ऐतन्निर्णेष्यामः । माभूद्वा नियुक्तानियुक्तासुतयोः कस्यचिदपि ब्राह्मण्यम् ।
१५
Acharya Shri Kailassagarsuri Gyanmandir
“पर पूर्वापर्ति धीरा वदन्ति दिधिषूपतिम् । यस्त्वमोदधिषूर्विप्रः सैव यस्य कुटुम्बिनी ॥ " न त्विह सम्भवति परपूर्वापतेः पृथगेव निषिद्धत्वात् । तस्मादन्यो दिधिषूपतिः ॥ १७३ ॥ * परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ॥
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ।। १७४ ॥
ननूक्तमसति ब्राह्मण्ये प्राप्त्यभावात्प्रतिषेधानुपपत्तिः । पतितप्रतिषेधादेव एतद्भविष्यति द्विजातिकर्मम्यो हानिः पतनम् । द्विजातिकर्मत्वे सति श्राद्ध भोजनस्य कुतः पतिते प्राप्तिः। आम्नायते च प्रतिषेधो “ये स्तेनपतिता " (११० श्लो.) इति ॥ १७४॥ ते तु जाताः परक्षेत्रे प्राणिनः प्रेत्य चेह च ॥
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् || १७५ ।।
“ जात्याख्यायामिति ” ( न्या. सू. १/२/१८) बहुवचनं प्राणिन इति । ब्राह्मण्यादिव्यपदेशमवजानते प्राणिन इत्येवं व्यपदेशाही, न व्यपदेशान्तरमर्हन्ति अतस्ते नाशयन्ति हव्यकव्यानि निष्फलीकुर्वन्ति प्रदायिनां दातृणाम् । परिवेषादीनां लोके नातिप्रसिद्धत्वात् शब्दश्चास्मृतत्वाद्वयवस्थार्थ लक्षणप्रणयनम् ॥ १७५ ॥
अपक्त्यो यावतः पंक्त्यान् भुञ्जानाननुपश्यति ||
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ।। १७६ ॥
१ फ - व्युत्पाद्यते ; र- पत्नीशब्दो त्युपोह्यते । २ फ- एवन्निर्णेष्यामः । ३ ड-तौ पजातो:- प्राणिनः । ४ फ- अस्य स्मृतत्वात् । ५ फ- अपांक्त्यो ।
* उत्पन्नयोरधर्मेण हव्यकव्ये च नैत्यके ॥ यस्तयोरन्नमश्नाति स कुण्डाशी द्विजः स्मृतः ।
For Private And Personal Use Only