SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। २५७ कन्यादूषकः । हिंसः स्वभावक्रूरः वधरतः । वृषलवृत्तिः शूद्रेभ्यः सेवादिना यो जीवति । वृषलपुत्र इति पाठान्तरम् । केवला एव वृषलाः पुत्रा यस्य “शूद्रापत्यैश्च केवलैः" इति गर्हिताचारः । गणानां देवतायाजकः । गणयागाः प्रसिद्धाः ॥ १६४ ॥ ___ आचारहीनः क्लीवश्च नित्यं याचनकस्तथा ॥ कृषिजीवी श्लीपदी च सद्भिनिन्दित एव च ॥ १६५॥ ५ आचारो गृहाभ्यागतानां पूजादिप्रयुक्तलौकिकसमाचारः तेन वर्जितः । क्लीवोऽल्पसत्वः । भग्नोत्साहः कर्तव्येषु । याचनकः सदैव यो याचते यश्च याच्या परानुद्वेनयति। वस्तुस्वभावोऽयं याञ्चया याच्यमानोद्वेजनम् । 'नन्यादिभ्यो युः । स्वार्थे कः । कृषिजीवी स्वयंकृतया कृष्या जीवति, सति चोपायान्तरे अस्वयंकृतयाऽपि । श्लीपदी एकः पादो महान्यस्य । सद्भिनिन्दितः दुर्भगः । विनाऽपि दोषेण सतां द्वेष्यः ॥ १५॥ १० औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ॥ प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ १६६ ॥ उरभ्रा मेषास्तैश्चरति क्रयविक्रयादिना व्यवहरति तद्धनप्रधानो वा । एवं माहिपिकः । परः पूर्वो यस्याः तस्याः पतिः भर्ता । या अन्यस्मै दत्ता अन्येन वा उढा तां पुनः यः संस्करोति पुनर्भवति भर्ता पौनर्भवो नरो भर्ताऽसावितिशास्त्रेण । प्रेतान्यो १५ निर्यापयति वहति । एते यत्नतो वर्जनीयाः ॥ १६६ ॥ एतान्विगर्हिताचारानपातेयान्द्रिजाधमान् ॥ द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ १६७ ॥ विगर्हितो निन्दितः आचारः कर्मानुष्ठानमेषामिति । काणादयः पूर्वदोषलिङ्गेन । स्तेनादयोऽनुभयमानदोषाः प्रत्यक्षादिना । उभयत्र देवे पित्र्ये च वर्जयेत् परिहरेत् । २० अपाङ्क्तेयाः पंक्तिं नार्हन्ति । भवार्थे ढक्कर्तव्यः । अनर्हत्वमेव पंक्तावभवनेने प्रतीयते । अन्यैर्ब्राह्मणैः सह भोजनं नार्हन्ति । अत एव पंक्तिदूषका उच्यन्ते । तैः सहोपविष्टा अन्येऽपि दूषिता भवन्ति ॥ १६ ॥ ब्राह्मणस्त्वनधीयानस्तृणागिरिव शाम्यति ॥ _____ तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ १६८॥ २९ यथैते स्तेनादयः पंक्तिदूषकाः एवमनधीयानस्तत्तुल्यदोष इत्येवमथै पुनर्वचनम् । अन्ये तु व्याचक्षते । अधीयानानां काणादीनामसति वर्तमाने विगर्हिताचारत्वे देवे कदाचित् १ ड-देवतानां । २ देवानां चा फ-प्रयुक्तो । ३ नन्दिग्रहिपचादिभ्यो'-(व्या. सू. ३ । १११३४.)। ४ अकफर्ड-निर्यातकश्चैव । ५ फ-अभवनं । ३३ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy