SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ मेधातिथिभाष्यसमलंकृता । [तृतीयः तयाऽन्यं देवयति । तदर्थो द्वितीयः कितवशब्दः । अथवा अनृतस्त्रीकद्यूतसमास्थाणवो द्यूतवृत्तयः । पुत्र आचार्योऽध्यापको यस्य मुख्यमाचार्यत्वं न पुत्र संभवति ॥ १६०॥ भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥ उन्मत्तोऽन्धश्च वयाः स्युर्वेदनिन्दक एव च ॥ १६१ ॥ व्याधिविशेषवचना एते।भ्रामरी अपस्मारी । गण्डमाली कपोले कण्ठे पिटका मालाकारा जायन्ते।श्वित्री श्वेतकुष्ठः ।पिशुनः परमर्मप्रकाशकः कर्णेजपः । उन्मत्तः अनवस्थितचित्तो धातुःसंक्षोभेण पिशाचगृहीतः यत्किंचनवादी यत्किचेनकारी वा । अन्धःचक्षुर्विकलः । वेदनिन्दकः । ननु च ब्रह्मद्विशब्देनैव ब्रह्मशब्दस्यानेकार्थकत्वात् वेदनिन्दको गृहीत एव । नैवम् । अन्या निन्दा अन्यो द्विषः। चित्तधर्मो द्वेषः । तदुपर्यप्रीति१० शब्देन कुत्सनं निन्दा ॥ १६१ ॥ हस्तिगोश्वोष्टदमको नक्षत्रैर्यश्च जीवति ॥ पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ १६२ ॥ हस्त्यादीनां विनेता दमनकः। गतिशिक्षयिता । नक्षत्रैर्यश्च जीवति । नक्षत्रशब्देन ज्योतिःशास्त्रं लक्ष्यते तेन जीवति ज्योतिषिकः । पक्षिणां श्येनादीनां आखेटार्थ पोषयिता। १५ युद्धाचार्यों धनुर्वेदोपदेशकः ॥ १६२ ॥ स्रोतसां भेदको यश्च तेषां चावरणे रतः॥ गृहसंवेशको दूतो वृक्षारोपक एव च ॥ १६३ ॥ स्रोतांसि उदकागमाः तेषां भेदकः । सेतुं भित्वा देशान्तरे ब्रीह्यादिसेकार्थ नयति । तेषां च स्रोतसामेवावरणे रतः । आवरणं आच्छादनं यतः प्रदेशादुदकमुद्भवति तत् २० स्थगयति । गृहाणा संनिवेशोपदेशकः वास्तुविद्याजीवी स्थपतिः सूत्रधारादिः । न त्वात्मनो गृहाणां सन्निवेशयिता । दूतो राज्ञः प्रेष्यो दासवद्विनियोज्यः । दूतस्तु सन्धिविग्रहादावेव प्रेष्यते । वृक्षान् रोपयति मूल्येन । धर्मार्थ तु न दोषः । अविहिताचारत्वात् ‘विहितं वृक्षारोपणं " दशाम्रवापी नरकं न याति " ॥ १६३ ॥ श्वक्रीडी श्येनजीवी च कन्यादृषक एव च ॥ २५ हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ १६४॥ श्वभिः क्रीडति श्वक्रीडी । क्रीडाथ शुनो बिमति । श्येनै वति क्रयविक्रयादिना । प्रागुक्तपाक्षिणां पोषकः पञ्जरादिसंस्थितानां धारयिता । कन्यामकन्यां यः करोति स __ १ ड-कृतश्रीक । २ फ-यस्यामुख्यम् । ३ र-श्वित्र्यी । ४ ड-कपाले। ५ फ-यत्किंचित्कारी । ६ फ-राज्ञा। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy