________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
२५३
प्रतिवयस इत्येक इति संज्ञाशब्दो वाऽयं क्तिनंतः । ब्रह्मविद् ब्राह्मणानां वेदस्य वा द्वेष्टा । ब्रह्मशब्दस्योभयार्थवाचित्वात् " ब्रह्मज्ञों ब्राह्मणः स्मृतः" इति । गणः सङ्घः सहैकया क्रियया जीवन्ति ये ते गणशब्दवाच्यास्तदन्तर्गताश्चातुर्विद्यब्राह्मणाः । परिवेत्तृपरिवित्ती वक्ष्यमाणस्वरूपौ ॥ १५ ॥
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
पौनर्भवश्व काणश्च यस्य चोपपतिहे ॥ १९ ॥ चारणनटनर्तकगायनादयः कुशीलवाः । अवकीर्णी विप्लुतेनह्याच्या दृषी शूद्रा तस्याः पतिः । अप्रत्यक्षन्यायं च मन्यन्ते।वृषल्या एव च यः पतिः यस्य विपतिभायी चास्ति कुत एतत् प्रकरणान्तरे विगर्हिताचारसंग्रहं श्रूयते "एतान्विगर्हिताचारान्" इति दविवाहश्च सर्वेषामनुज्ञातत्वात् न गर्हितः। स च कृतसजातीयापरिणयनस्यानुज्ञातः । अतोऽसत्या सजातीयायां वृषल्या भर्ता प्रतिषिध्यते । तत्र पौनर्भवः पुनर्भूः । पुनरूढां वक्ष्यति नवमेऽध्याये “ पत्या वा परित्यक्तेति" । काण एकेनाक्ष्णा विकलः । यस्य च उपपतिर्जायाजारोऽवस्थितायां भार्यायामस्ति उपेक्षया निन्द्यते । तदुक्तं " भन्नादे भ्रूणहा मार्टि पत्यौ भार्यापचारिणीति " ॥ १५५ ॥
भृतकाध्यापको यश्च भूतकाध्यापितस्तथा ॥
शूदशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलको ॥ १५६ ॥ भृतकाध्यापकः भृतकः सन् यो स्थितोऽध्यापकः मृतक इति यदीयद्ददाप्ति वेदमध्यापयामीति यः प्रवर्तते पणेन स भूतकाध्यापकः । एषा हि मृतिः प्रसिद्धा कायवाहादिषु । यस्त्वियता धनेनेयध्यापयामीति न निश्चित्य वचनव्यवस्थया पूर्वमध्यापयति लमते चाध्यापनार्थ नासौ भृतकाध्यापकः । अनिरूपितपरिमाणपूर्वे चार्थवादे २० विहितमध्यापनम् । एवं भृतकाध्यापितः यो ह्युत्पन्नबुद्धिः सत्यकामवत् स्वयं भूति दत्त्वाऽधीते स एवमुच्यते । यस्तु पित्रादिना भृतिं दत्वा उपाध्यायान्तराभावेऽध्याप्यते न तस्य विगर्हिताचारत्वं बालो हि पित्रा प्रतिषिद्धेभ्यो निवर्तनीयः । एतदुक्तं " गुरौ शिष्यश्च याज्यश्चेति " । शूद्रस्य शिष्यो व्याकरणादिविद्यासु गुरुश्व शूद्रस्यैव । उपसर्जनीभूतस्यापि संबन्धः स्मृतिशास्त्रत्वात् विगर्हिताचारत्वस्य सर्वशेषत्वात् शूद्रगुरुत्वं च २५ गर्हितं नान्यत् । वाचा दुष्टः परुषानृतभाषी । अभिशस्त इत्यन्ये । कुण्डगोलको वक्ष्यमा॑णौ ॥ १५६ ॥
१फ-क्तिनंतः। “ति च कौ च संज्ञायाम् "(व्या. सू. ३।३। १७४) र-किनंतः। २ -प्रमाऽपि प्राणः स्मृतः । ३र-अप्रत्यक्षन्यायर्या चात्र मन्यन्ते । ४ अग्रे श्लो. १६७।५ श्लो. १७५। ६ अ. ८ श्लो. १६७ । ७ फ-व्युत्पन्नबुद्धिः । ८ अग्रे श्लो. १७४ ।
For Private And Personal Use Only