SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५२ ५ www. kobatirth.org १० मेधातिथि भाष्यसमलंकृता । [ तृतीय: भिषजः चिकित्सकाः । देवलका : प्रतिमापरिचारकाः । आ जीवनसंबन्धेनैतौ । प्रतिषिध्येते । धर्मार्थत्वे तु चिकित्सक देवलत्वयोरदोषः । मांसविक्रयिणः सौनिकाः । द्वितीयान्तपाठे पूर्व श्लोकादाख्यातानुषङ्गः । विपणेन जीवन्तः प्रतिषिद्धेन पणेन । दशमाध्याये वक्ष्यन्ते । तेन ये जीवन्ति ते वर्ज्याः । उभयत्र मांसविक्रयिणस्तु धर्मार्थमपि निषिध्यन्ते । यस्य केनचिन्मांसमुपहृतम् अन्यस्य च तेनार्थः । उपहृतमांसस्य घृतेन होमोपयोगिना समांसं घृतेन विनिर्मिमीते भवत्यसौ धर्मार्थो विनिमयो विक्रयशब्दवाच्य विनिमयस्यापि भवतीत्यत ईदृशा धर्मार्थमांसविक्रयिणोऽपि प्रतिषिध्यन्ते ॥ ११२ ॥ यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ॥ प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ १११ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 प्रेष्य आज्ञार्करः । ग्रामेण यो यत्रकुत्रचित् कार्येण प्रेष्यते । एवं राजप्रेष्यः । कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोर्वाग्व्यवहारेऽन्यत्र च यो गुरोः प्रतिबन्धेः प्रातिकूल्ये च वर्तते । त्यक्ताग्निस्त्रतावसथ्ययोरन्यतरस्यापि । वार्धुषिः सत्यन्यस्मिन् जीविकोपाये वृद्धिजीविकः । “ वृद्धिस्तु योक्ता धान्यानां वार्धुषित्वं तदुच्यते " इति यत्स्मरणं तत्स्वैप्रक्रियायामेव । वैयाकरणा हि वृद्धिजीविनो धान्यादन्यत्रापि वार्धुषिक१५ शब्दं स्मरन्ति । ते च शब्दार्थस्मरणे प्रमाणतरा अभियोगवशात् ॥ ११३ ॥ यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥ ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च ॥ १५४ ॥ यक्ष्मी व्याधितः । राजयक्ष्मगृहीत इत्यन्ये । पशुपालः यष्टिहस्तस्तद्वृत्तिजीवनः । निराकृतिः सत्यधिकारे महायज्ञानुष्ठानरहितः । अद्यत्वेऽप्यनुपजीव्यः । अनद्धा निरा२० कृतिरुच्यते । एवं हि शतपथे “ यो न देवानचेति न पितृन्न मनुष्यान् " इति । यैस्तु पठ्यते “ अस्वाध्यायश्रुतधनैर्निराकृतिरुदात्दृतः " इति न ते शब्दार्थसंबन्धविदस्ततस्तस्येहाप्राप्तिरेवै श्रोत्रियनियमात् । निराकर्ता देवादीनां निराकृतिरिति धात्वर्थानुगमोऽस्ति । धर्मधर्मिणोश्चाभेदविवक्षायां केनापि प्रयोग उपपन्न इति निपूर्वोऽयं धातुरपवर्जने वर्तते । निराकृता अपवर्जिता उच्यन्ते । भोजनान्निराकृता अधिकारान्निराकृता इति । भव २९ चाकृतिः सा निर्गताऽस्मादिति निराकृतिः । संस्थानं चाकृतिस्तथा च कुत्सायां निर्द्रष्टव्यो दुराकृतिर्निषिध्यते । आह च “वाग्रूपवयः शीलसंपन्नो वाक्संपन्नो वाग्मी पटुवागिन्द्रियश्ध बहुजिह्वो न भोज्याः " । रूपसंपन्नमनोहरावयवसंनिवेशवयः संपन्नः । युवभ्यो दानं प्रथमं १ फ - आज्ञाकारः । २ ड - प्रक्रियायामेव । ३ र आद्यत्वे वाऽप्युपजीव्यः | अन्नद्धा । ४ र अवति । ५ प्राप्तिरेव नास्ति । ६ फ-ऊर्ध्वजनने । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy