________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः।
अध्यायः ] पितृश्रोत्रियत्वेन भोज्यता विधीयते । तदुक्तं " दूरादेव परीक्षेत " इति । अत्राध्ययनपरीक्षा पुरुषद्वयविषयाऽनेन नियम्यते । जातिगुणपरीक्षा तु ततोऽधिकपुरुषविषयाऽपि यथा अतस्तस्यैव विशेषाभिधानार्थत्वादपौनरुक्त्यम् ॥ १३७ ॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ॥
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम् ॥ १३८॥ ५ सत्यामेव श्रोत्रियत्वादिपूर्वगुणसंपदि मैत्र्यादिनिमित्तेन प्रतिषेधोऽयम् । मित्रं समानसुखदुःखं आत्मनिर्विशेषं न श्राद्धे भोजयेत् । धनैरन्यैरस्य मित्रस्य स्वीकारो मैत्रीकरणम् । अविच्छेदो वा मैत्र्यं उपकार इति यावत् । न केवलं न मित्रं भोजयेत् यावदार शत्रमपि । नारिं न मित्रं यं विद्याद्यत्र न रागो न द्वेषो न चान्यः कश्चित्संबंधो यत्र प्रीतिनिमित्ता कार्यार्थता शक्यते अरिमित्रयोः प्रदर्शनार्थत्वात् । तथा संबंधाशंकयैव १० मातामहादयोऽनुकल्पपक्षोक्ताः। शत्रावपि मैत्रीकरणार्थदानसंभावना यदि मैत्रीकरणमिति संग्रहः अरिसंग्रहणं न कर्तव्यं विस्पष्टाथै भविष्यति ॥ १३८ ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ॥
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ १३९ ॥ पूर्वस्य प्रतिषेधस्यार्थवादोऽयम् । मित्रशब्दोऽयं भावप्रधानः । मित्रप्रधानानि १५ मैत्रीप्रधानानि तेनोभयोरपि मित्रयोः शेषः देवतोदेशेन दानमदृष्टार्थ वा केवलयोाह्मणयोर्भोजनं हवींषि इति लक्ष्यते। प्रेत्य फलं नास्ति। ननु चासमानकर्तत्वात्कार्यानुत्पत्तिः प्रायेण कर्ता पुरुषःश्राद्धकृच्छ्रताया नअर्थोपहितायाः फलं केचिदाहुः। प्रेत्येतिशब्दान्तरं परलोकवचनं नियंतसंज्ञम् । अथ प्रायेणापि फलं कर्तृ तस्य फलं प्रेत्य प्रकर्षेण निकटं आप्यापि न भवति न भोग्यतां याति ॥ १३९ ॥
यः संगतानि कुरुते मोहाच्छाद्धेन मानवः ॥
स स्वर्गाच्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ १४०॥ संगतानि मित्रभावाद्यः कुरुते श्राद्धेन मोहात् शास्त्रार्थमजानानः स स्वर्गात् च्यवते। न प्राप्नोति स्वर्गमित्यर्थः। असंबन्धसामान्यात् च्यवत इत्युच्यते यथा प्राप्तः स्वर्ग ततश्च्युतः स्वर्गेण न संबध्यते एवमयमपि। अनेन च श्राद्धफलाप्राप्तिरेव कथ्यते। सर्वशेषता हि तथा भवति। २९ श्राद्धमित्रः श्राद्धं मित्रमस्येति मित्रलाभहेतुत्वात्। श्राद्धमेव मित्रमतो बहुव्रीहिः द्विनानामधमः।
१ १३० श्लो. पृ. २४४ १ फ-संभवाय नापदि मैत्रीकरणम् । २ फ-भशेषः । ३ ड-निपातसंज्ञं । कथादा मजानतः । ४ पूर्वहि शेषता हि ।
For Private And Personal Use Only