________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[तृतीयः निष्ठाशब्दः समाप्तिवचनः प्रकर्ष लक्षयति । तस्मिन्निष्ठस्तत्पर उच्यते । सर्वगुणसद्भावेऽपि यदि तत्र प्रकर्षोऽस्त्येव, गुणाः मध्यमाः, तथा च भवत्येव पात्रम् । अप्रकृष्टे त्वेकस्मिन् सर्वगुणसद्भावेऽपि न पात्रतां लभते । समुच्चयश्च व्याख्यायते । तेन ज्ञानरहितस्य कर्मा. नुष्ठानसद्भाव इत्युक्तं द्वितीये । अन्यैस्तु ज्ञाननिष्ठपरिव्राजको व्याख्यायते । तस्य हि आत्मज्ञानाभ्यासः कर्मन्यासेन विशेषतो विहितः। तपोनिष्ठो वानप्रस्थः । स हि तापस इत्याख्यायते । “ग्रीष्मे पञ्चतपास्तु स्यादिति" (अ. ६ श्ला. २३) । तपःस्वाध्यायनिष्ठाः ब्रह्मचारिणः कर्मनिष्ठा गृहस्थाः। अतश्च नाश्रमिणो निषिध्यन्ते । तथा च पौराणिकाः "चातुराश्रम्यवाह्येभ्यः श्राद्धं नैव प्रयोजयेत्" ॥ १३ ॥
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः॥ हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्वपि ॥ १३५ ।। गुणविभागे प्रयोजनमाह । कव्यानि पितनुद्दिश्य यद्दीयते तत्कव्यम् । तानि ज्ञाननिष्ठेषु प्रतिष्ठाप्यानि प्रदेयानीत्यर्थः । यत्नवचनात्तदभावे चतुर्वपि हव्यवत् । पित्र्ये ज्ञाननिष्ठाः पात्रतमाः । उक्तं हि " पात्राणामपि तत्पात्रं " इति । अन्नदानमविशेषेण चतुर्योऽपि इति श्लोकार्थः । न्यायः शास्त्रीयो विधिः ॥ १३५ ॥
अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ॥
अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ १३६ ॥ संशयोपन्यासार्थः श्लोकः ॥ १३६ ॥
ज्यायांसमनयोविद्याद्यस्य स्याच्छ्रोत्रियः पिता॥ मन्त्रसंपूजनार्थ तु सत्कारमितरोऽर्हति ॥ १३७ ॥
यस्य पिता अपार्टः स्वयं तु वेदपारगः सांगवेदाध्यायी, इतरस्य तु पिता वेदपारगः स्वयं तु मूर्खः, तयोः कः श्रेयानिति संशयं कृत्वा सिद्धान्तमाह । अनयोः स्वयं श्रोत्रियपितृमूर्खस्वयंमूर्खपितृश्रोत्रिययोः स्वयंमूर्खपितृश्रोत्रियं ज्यायांसं प्रशस्यं श्राद्धे योग्यं जानीयात् । यद्यस्य श्रोत्रियः पिता । इतरो मन्त्रपूजनार्थ न ब्राह्मणबुद्ध्या किं तु मन्त्रास्तेन
येऽधीतास्ते तत्र पूज्यते । न मन्त्राणां श्राद्धे पूजा विहिता तस्मान्नासौ भोजयितव्यः । २५ श्लोकद्वयेन संशयसिद्धान्तरूपोपन्यासेनार्थवादभग्यापितृश्रोत्रियत्वं आत्मश्रोत्रियत्वं
च श्राद्धभोजने कारणमित्येतदुच्यते । न केवलमात्मश्रोत्रियत्वं न तु स्वयं अनधीयानस्य
१ड-येन न ज्ञानरहितस्य कर्मानुष्ठान इत्युक्तम् । २अ-ब-क्ष-ज्ञानोत्कृष्टेषु । उहतेभ्यो देयानि । ४ड-अपठः
For Private And Personal Use Only