________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
अध्यायः ]
मनुस्मृतिः। संदीप्तान् तप्तायःपिण्डान् यमपुरुषैराश्यते । अयमसौ हस्तरुधिरदिग्धोपमार्थः रुधिरदिग्धौ रुधिरेणोपमृज्यमानावधिकतरं रज्यते । न निर्मलौ भवतः । एवमविद्वान् ब्राह्मणः भोज्यमानः पितृनधो नयतितराम् । पाठान्तरं प्रेत्येति भोक्तुरेव प्रेत्यता । नाविदुषा देवपित्र्ययोर्भोक्तव्यम् ॥ १३२ ॥
यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् ॥
तावतो ग्रसते प्रेतो दीप्तशूलष्टर्ययोगुडान् ॥ १३३ ॥ सत्यपि श्राद्धप्रकरणे वाक्याद्भोक्तुरयं दोषानुवादः । तथा चोक्तं "तस्मादविद्वान् विभियाद्यस्मात्तस्मात्प्रतिग्रहात्" इति। शूलष्टर्ययो आयुधविशेषे अयोलगुडः आयसः पिण्डः। व्यासदर्शनात्तु भोजयितुरयं दोषो न भोक्तुः । न पितृणां न तावन्मृतानामन्यकृतेन प्रतिषेधातिक्रमेण दोषसंबन्धो युक्तः, कृताभ्यागमादिदोषापत्तेः । यदि हि पुत्रेण तादृशो ब्राह्मणो १० भोजितः कोऽपराधो मृतानाम् । ननु चोपकारोऽपि पुत्रकृतः पितृणां अनेन न्यायेन न प्राप्नोति । प्राप्नुयाद्यदि तादर्थेन श्राद्धादिनोदितं स्यात् । इह तु नास्ति चोदना, पितुरुपकारकामेनैवं कर्तव्यं स्यात् , श्येनवत् । यत्तु “तावतो ग्रसते प्रेत" इति तद्भोजयितृसंबन्धेऽप्युपपद्यते । यस्य ब्राह्मण ईदृशः श्राद्धं भुते स इदं फलमाप्नोति इति युक्तः संबन्धः । प्राकरणिकश्वायं अविद्वद्भोजनप्रतिषेधस्तदतिक्रमणे कर्मवैगुण्यं तद्वैगुण्ये च श्राद्धाधिकारान्निवृत्तिरेव १५ दोषः । पितृणां श्राद्धोपकाराल्लाभः ततोऽपि विध्यतिक्रमे पुत्रस्य युक्तः प्रत्यवायः । किंतर्हि तद्भगवतो व्यासस्य वचनम् । “ ग्रसते यावतः पिंडान् यस्य वै हविषो विदः । असते तावतः शूलान् गत्वा वैवस्वतक्षयम् ॥ १३३ ॥
ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथाऽपरे ॥
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे ॥ १३४ ॥ २० सर्वगुणेभ्यो विद्यां प्रशंसितुं गुणविभागकथनप्रशंसा च विदुषे दानार्था । ज्ञाने विद्यायां निष्ठा प्रकर्षो येषां ते ज्ञाननिष्ठाः ज्ञानाधिकारिणः । गमकत्वाद्वयधिकरणानामपि बहुव्रीहिः । भृशमभ्यस्तवेदार्थास्तत्परा एवमुच्यन्ते । एवं सर्वत्र निष्ठान्तेषु द्रष्टव्यम् । तपश्च स्वाध्यायश्चेति द्वन्द्वगर्भो बहुव्रीहिः । तपांसि चान्द्रायणादीनि, स्वाध्यायो वेदाध्ययनं, कर्माण्यग्निहोत्रादीनि । सर्व एते गुणाः सर्वेषु समुच्चिता इति द्रष्टव्याः । न हि एकगुणसद्भाव २५ इतरगुणहीनस्य पात्रतामापादयति । किं तु कस्यचित्कोऽपि प्रकर्ष उच्यते । यथा च
१ फ-प्रेत्य. २ ड-न दोषानुवादः । ३ फ-नप्रामुयात् । ४ ड-विद्याध्ययनं । ५ फ-एकगुणः सद्भाव-ड-सद्भावे ।
For Private And Personal Use Only