________________
Shri Mahavir Jain Aradhana Kendra
२४४
www. kobatirth.org
१५
मेधातिथिभाष्यसमलंकृता ।
२५
Acharya Shri Kailassagarsuri Gyanmandir
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ॥
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ।। १३० ॥
न वेदपारग इत्येव भोजयितव्यः । किं तर्हि दूरात् परीक्षेत निपुणतो मातापितृवंशद्वयपरिशुद्धिज्ञानं यथोक्तं “ये मातृतः पितृतश्च दशपूरुषं" । समनुष्ठितविद्यातपोभ्यां पुण्यैश्च ९ कर्मभिः येषामुभयतो ब्राह्मण्यं निर्णयेयुरित्येषा दूरात्परीक्षा । तथा तत्त्वतोऽध्ययनविज्ञानकर्मानुष्ठानवेदनं च । वेदस्य पारगः समाप्तिगः वेदपारगः । न वेदसंहितां ब्राह्मणमात्रं वा पठन्नर्हो भवति । अस्मादेव दर्शनात् श्रोत्रियशब्देन वेदैकदेशमप्यधीया न उच्यत इति गम्यते । तीर्थं तद्धव्यकव्यानाम् तीर्थमिव तीर्थं येनोदकं ग्रहीतुमवतरंति तत्तीर्थम् । तेन 1 यथामार्गेणोदकार्थिनो गच्छंत उदकं लभते एवं तादृशेन ब्राह्मणेन हव्यकव्यानि पितॄन् १० गच्छंतीति प्रशंसा । अन्यस्मिन्नपि इष्टापूर्तदानेन ब्राह्मणो यथातिथिर्यथातिथये स्वयमुपस्थिताय निर्विचिकित्सं दीयते दत्तं महाफलम् । एवमीदृशाय ब्राह्मणाय हव्यकव्ये निर्विचि - कित्सं दातव्ये महाफले भवतः ॥ १३० ॥
सहस्रं हि सहस्राणामनृचां यत्र भुंजते ॥ एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः ॥ १३१ ॥
अनृचां अनृगर्थविदां उपलक्षणं ऋचो यतोऽनृचानां प्राप्तिरेव नास्ति श्रोत्रियायैवेति नियमात् । समासांतः छांदसत्वान्न कृतः वृत्तानुरोधाच्च । एवं हि पठति । “अपि माषं मर्षं कुर्यान्न तु छंदो विचालयेत्” इति । अथवा अनृचा इति प्रथमा बहुवचनम् । अनृचाः सहस्रं यथा भुञ्जत इति संबन्धः । यथा सहस्रं गाव इति । एकः प्रीतस्तर्पितो भोजितो मन्त्र - विद्वेदार्थवित् सर्वास्तान् अनृचानर्हति स्वीकरोति । तैरभेदमापद्यते । अभेदे च यत्तेषु २० सहस्रेषु भोजितेषु फलं तदेकस्मिन्नवाप्यते इत्यवगतिरुत्पद्यते । निन्देयमविदुषो विद्वद्विध्यर्था न पुनः सहस्रसंख्यातानामेकस्य च समफलत्वमुच्यते । विदुषां विधानादविदुषां प्राप्तिरेव नास्ति अथाप्यसति विदुषि श्रोत्रियायैवेत्यनेन पाक्षिकी अविदुषोऽपि प्राप्ति शंक्य तथापि विस्तरस्य प्रतिषेधो मा भूदित्यतो यथाश्रुतार्थसंभवः ॥ १३१ ॥
[ तृतीयः
For Private And Personal Use Only
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।।
न हि हस्तावदिधौ रुधिरेणैव शुध्यतः ॥ १३२ ॥
ज्ञानेन विद्यया उत्कृष्टा अधिकाः तेभ्यो देयानि कव्यानि । तैर्यदर्थं श्राद्धमारब्धं
१ - अवेदार्थविदाम् । २ ड - आत्मसाक्षात्करोति ।