________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२४३ शौचमात्मब्राह्मणप्रेष्यगतम् । ब्राह्मणानां संपत् गुणवद्राह्मणलाभः । एते गुणा अवश्य संपाद्याः । ते च विस्तरेण नश्यन्ति । विस्तारो वैगुण्यम् । ब्राह्मणबहुत्वे चासौ प्रसज्जति । तस्मान्नेहेत न कुर्यात् ॥ १२६ ॥
प्रथिता प्रेतकृत्यैषा पिज्यं नाम विधुक्षये ॥
तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ १२७॥ ५ न यथा दैवानि कर्माण्यदेवतार्थान्येवं पित्र्यं नाम तत्कमैंतत् । विधुक्षये तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी न यथा वैवानि कर्माणि । किं तर्हिः प्रथिता ख्याता वेदविदाम् । प्रेतकृत्या प्रेतोपक्रिया । विधुक्षये विधुश्चन्द्रस्तस्य क्षये । 'अमावास्यातिथिक्षय' इति पाठान्तरम् । विधुक्षय इति तु पाठो निर्दुष्टः । एवं हि तत्र योजनम् ।पित्र्यं नाम विधिचोदितं कर्म क्षये गृहे तस्मिन् कर्मणि पित्र्ये युक्तस्य तत्परस्य नित्यं कर्तुरुपतिष्ठते । १० प्रेतकृत्यैव तस्यापि प्रेतस्य कृत्योपकारः श्राद्धादि पुत्रैः क्रियते । पुत्रपौत्रादिसंतत्यविच्छेदः श्राद्धफलमनेन प्रकारेण प्रतिपाद्यते । न च तत्फलकामस्यायमधिकारो नित्यत्वस्य प्रतिपादितत्वात् । अन्ये त्वधिकारान्तरमिदं संतत्यविच्छेदकामस्येच्छन्ति । लौकिकीयं कर्तव्यता स्मार्तेत्यर्थः ॥ १२७ ॥
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ॥
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ १२८॥ श्रोत्रियः छांदसः कृत्स्नमंत्रब्राह्मणिकां शाखा अधीते यस्तस्मै हव्यानि श्राद्धांगभोजनानि विश्वान्देवानुद्दिश्य यानि विहितानि तानिदेयानि । कव्यानि पितृभ्य उद्दिश्य यानि भोजनानि । अर्हत्तमाय अर्हता पूज्यता योग्यता च । महाकुलीनः पूज्यते महाकुले जातो विद्यावृत्तसंपन्नश्च तस्मै दत्तं श्राद्धादन्यदपि महाफलम् । एवं चाश्रोत्रियाय दानं निष्फलम् । २० अश्रोत्रियाय अभिजनविद्यादिगुणरहिताय स्वल्पफलमहत्तमाय महाफलम् ॥ १२८ ॥
एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ॥
पुष्कलं फलमामोति नामंत्रज्ञान्बहूनपि ॥ १२९ ॥ यदुक्तमहत्तमायेति तद्दर्शयति । विद्वांसमेकमपि भोजयेत् । पुष्कलं फलमामोति। विद्वत्ता च व्याख्याता । वेदार्थवेदनं यत आह । नामंत्रज्ञान् बहूनपि । २५ मंत्रग्रहणं वेदोपलक्षणार्थम् । असंभवे पंचानां वेदविदुषामेकैकमपि विद्वांसं भोजयेदिति विध्यर्थः । पुष्कलं पुष्टं विपुलम् ॥ १२९ ॥
For Private And Personal Use Only