________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता । - [तृतीयः द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ॥ भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ १२५॥
यद्यपि प्रतिज्ञातस्य वस्तुनस्तेनैव क्रमेण विशेषकथनं युक्तं तथापीह स्वल्पवक्तव्यत्वाभोजनीया इति प्राप्तं परित्यज्य संख्यानिर्देशोऽनेन क्रियते । देवानुद्दिश्य द्वौ ब्राह्मणौ भोजयेत् । पितॄणां कृत्ये त्रीन् । उभयत्र वा दैव एक पित्र्ये चैकम् । यद्यपि पित्र्य इत्यत्र पितुरिदमिति पितृशब्देन देवताचोदना तथापि पितृपितामहप्रपितामहा उद्देश्याः । तत्रैकैकस्यैकैकं भोजयेत् । न त्वेवैकं सर्वेभ्यः पृथक्पृथग्देवतात्वात् । उक्तं च गृह्यकारेण "न त्वेवैकं सर्वेषाम् "। "पिण्डैाख्यातम्" इति । यथैकः पिण्डः सर्वेभ्यो न निरुप्यते तथैव ब्राह्मणोऽपि न भोज्यत इत्यर्थः । इहापि वक्ष्यति । " निमन्त्रयेत व्यवरान् " इति । भोजनार्थमेव तन्निमन्त्रणं नादृष्टार्थम् । अतश्च पितृकृत्ये त्रीस्त्रीनिति द्रष्टव्यम् । तथा चाह । "न चावरान्भोजयेत्"इति । एवं च कृत्वैकैकमपि विद्वांसमित्येतदप्येवमेव द्रष्टव्यम्। "एकैकस्यैकैकमिति” । अपि च नैवात्रैकैकमुभयत्रेत्येतद्विधीयते । विस्तरप्रतिषेधार्थोऽयमनुवादः । यथा " विषं भक्षय मा चास्य गृहे भुङ्गेति " । यद्येवं ' द्वौ दैव ' इत्येषोऽपि
विधिर्न स्यादस्याप्यन्यार्थतयोपपत्तेः । अथायं विधिरप्राप्तत्वादेकैकमित्येषोऽपि कस्मान्न १५ भवति । अत्राह। मा भूद्वयोरेकोऽपि विधिः । कुतस्तर्हि संख्यावगमो 'निमन्त्रयेत व्यवरा
निति' । ननु तत्र दैवग्रहणं नास्ति स्मृत्यन्तरात्तर्हि संख्यावगमः अयुजो वा यथोत्साहमिति' 'युग्मान्दैव' इति । यदि वाऽयं संख्याविधिः स्याद्विस्तरप्राप्त्यभावात्प्रतिषेधोऽनर्थकः । तस्मायावद्भिब्राह्मणैर्मोनितर्विस्तरे ये दोषास्ते न भवन्ति तावद्भोननीयाः। अत्राह । माभूहृयो
रेकोऽपि तावन्तो भोजनीयाः । पित्र्येऽयुग्माः दैवे तु द्वावेव । अतिसमृद्धोऽप्यत्यर्थमाढ्यो २० ऽपि । न प्रवर्तेत विस्तरे । न चायमदृष्टार्थो विस्तरप्रतिषेधः ॥ १२५ ॥ किं तर्हि
सक्रियां देशकालौ च शौचं ब्राह्मणसंपदः॥ पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥१२६ ॥
एतान्दोषानापादयति । विस्तरोऽतो नेष्यते । यदि तु शक्यन्ते सत्क्रियादय २५ उपपादयितुं तदा यथोत्साहम् । सत्क्रियाऽन्नसंस्कारविशेषः । देशो दक्षिणप्रवणादिः । ____ "अवकाशेषु चोक्षेष्विति" वक्ष्यमाणः । कालः अपराह्नः “मध्याह्नाच्चलिते सूर्य” इति ।
१ ड-पितणां सत्यमुपकारः पितनुद्दिश्य त्रीन् । देवरूपतया ब्राह्मणद्वयं कल्प्यम् । पितृरूपतया त्रयम् । इति एष उद्देश्यर्थः । एकैकमुभयत्र था।२ आश्वलयनगृ-सू. १।७।२-४ । ३ अग्रे १८७ श्लोके । ५ मे २.७ डोके.
For Private And Personal Use Only