________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
तत्पिण्डान्वाहार्यकं भवति । मासश्चानुमासश्च तयोर्भवं मासानुमासिकम् । मासानुमासशब्दसमुदायो मासगतां वीप्सामाचष्टे । मासि मासि कर्तव्यमित्युक्तं भवति । अतश्च नित्यतासिद्धिः । यद्यप्यनुमास शब्दाद्वीप्सावगतिर्भवति मासशब्दोऽतिरिच्यते तथापि पद्यग्रन्थे गौरवं नाद्रियते । श्राद्धमित्येतदपि नामैव । कुर्यादिति विधिः ॥१२२॥ पितॄणां मासिकं श्राद्धमन्वाहार्य विदुर्बुधाः || तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ १२३ ॥
२४१
अन्वाहार्य दर्शपौर्णमासयोः श्रौतयोर्दक्षिणत्विजाम् । यदेतन्मासिकं श्राद्धममावास्यायामेतत्पितॄणामन्वाहार्यम् । यथाऽन्वाहार्येणर्तित्रजः प्रीयन्ते तद्वत्पितरः श्राद्धेन । एतेन पित्रर्थतां श्राद्धस्याह । यथाऽन्यादिदेवतार्थो दर्शादियाग एवं न श्राद्धे पितरः किं तर्हि तदुपकारार्थमेव श्राद्धम् । तथा च पितॄणामिति षष्ठी । केवले हि देवत्वे चतुर्थ्या - १० विरहायोगः । पक्षे पाठान्तरमर्थान्तरं च पिण्डानां मासिकमिति । अन्वाहार्य विदुर्बुधः । अनेनापि पितृयज्ञत्रदवश्यकर्तव्यतोच्यते । न त्विदमङ्गम् । तदेतदामिषेण मांसेन कर्तव्यम् । प्रशस्तेनाप्रतिषिद्धेन विशेषविहितेन वा । "द्वौ मासौ मत्स्यमांसेन " इति यद्वक्ष्यति अयं च मुख्यः कल्पः । तदभावे दधिघृतपयोऽपूपादि विधायिष्यते । मांसं च व्यञ्जनं 1 भक्तादिभोज्यस्य । न पुनरेतदेव केवलं भोज्यं येन वक्ष्यति " गुणांचे सूपशाकाद्यान् " १५ तथा " यावन्तश्चैव यैश्वान्नैरिति " 1
किं पुनः श्राद्धे होमब्राह्मणभोजनपिण्डनिर्वपणादीनि कर्माणि सर्वाण्येव समप्रधानानि श्राद्धशब्दवाच्यान्युत किंचिदङ्गमत्र किंचित्प्रधानम् । उच्यते । श्राद्धं भोजयेच्छ्राद्धं भुक्तमनेनेति सामानाधिकरण्याद्वाह्मणभोजनं मुख्यं प्रतीयते ॥ १२३ ॥
तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः ॥ यावन्तश्चैव यैश्वान्नैस्तान्प्रवक्ष्याम्यशेषतः ।। १२४ ।।
For Private And Personal Use Only
२०
तथा चाह । तत्र तस्मिञ्छ्राद्धे ये द्विजोत्तमा ब्राह्मणा भोजनीया ये च परिहर्तव्या यावन्तो यत्संख्याका 'द्वौ दैव' इत्यादि । यैश्वान्नैस्तिलैवीहियवैरित्यादि तदेतत्सर्वमिदानीं वक्ष्यामि । तच्छृणुत । एतदत्र प्राधान्येन संपाद्यम् । एतेन विना श्राद्धं न कृतं भवति। अन्यच्च यच्चाङ्गजातमारादुपकारकं संनिपत्योपकारकं वा तस्मिन्नसंपन्ने श्राद्धं न कृतं २५ भवति । सगुणं तन्न स्यात् । अत एतेषां प्राधान्यख्यापनार्थं पुनरुपन्यासः ॥ १२४ ॥
१ [ न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ॥
इन्दुक्षये मासि मासि प्रायश्चित्ती भवेत्तु सः ]
२ ड -अनाहार्ये पिण्डपितृयज्ञस्थानुगते तत्सम्बंन्धं विदुर्बुधाः । ३ फ- अस्य कर्तव्यतोच्यते । ड-ऋत्वि गसङ्गतिम् । ४ अ -३ श्लो. २६८ । ५ अ-श्लो. २२६ । ६ अग्रे १२४ छो.
३१