SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । २३९ ऽर्वाक्संवत्सरान्नोर्ध्वमित्येवं ज्ञेयः । इह द्वितीये पादेऽनेकधा पाठप्रतिपत्तिः । केचित्पठन्ति । तते यज्ञ उपस्थिताविति । तेषामयमर्थः । तते प्रारब्धे यज्ञे यदि प्राप्तौ भवतो निमन्त्रानीतौ तदेयं मधुपर्कक्रिया तयोः । न पुनः प्रारभ्यमाणे । 1 एष पक्षः कैश्चिद्दृप्यते । दीक्षितो न ददातीति दीक्षितस्य सर्वदानप्रतिषेधान्मधुपर्कदानमनुज्ञायमानं तद्विरुद्धं स्यात् । न च शक्यं वक्तुं दानमेतन्न भवत्यर्हयेदिति नोदनात् । पूषा विधीयते । यतोऽस्ति मधुपर्के अधिदानं मांसभोजनादिदानं च । अथोच्यते । स्वयमेव तत्परकीयं भुज्यत इति । एवं सति स्तेयदोषः स्यात् । वचनान्नेति चेदस्त्येव तर्हि ददात्यर्थः चोदितं च दददिति मधुपर्कं च दद्यादिति । तस्माद्विरुद्धं दीक्षितो न ददातीत्यनेन स्याद्विरोधः । यदि यज्ञशब्दः सोमयागेष्वेव वर्तते । दर्शपूर्णमासादयोऽपि यागास्तद्विषयोऽयं विधिर्भविष्यति । नैतद्युक्तम् । एवं सति समाचारविरोधः । न हि शिष्टाः सोमयागेभ्योऽन्यत्र कैचिदर्ध्याय मधुपर्कमाहरन्ति । आचारो वेदादरः । अतोऽयमेव पाठो युक्तः । यज्ञकर्मण्युपस्थित इति । प्रारभ्यमाणयज्ञ आगतं शिष्टा मधुपर्केण पूजयन्ति न प्रवृत्तयज्ञाः । अतश्चैतदपि न विचारयामः । सामान्यतः प्राप्तस्य दानस्य भवतु निवृत्तिर्न पुनस्तद्विषयतयैव श्रुतस्य । यज्ञश्चासौ कर्म च तद्यज्ञकर्म तस्मिन्नुपस्थिते प्राप्ते ॥ १२० ॥ १९ सायं त्वन्नस्य सिद्धस्य पत्न्यमंत्रं बलिं हरेत् ॥ वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ १२१ ॥ उक्तः प्रथमः । इदानीं द्वितीयः पाक उच्यते । सायं दिनान्तः प्रदोषस्तत्र सिद्धस्यान्नस्य सर्वः पाकयंज्ञियो विधिरावर्तनीयो ब्रह्मयज्ञपितृयज्ञवर्जम् । १० ननु च बलिं हरेदित्येतावच्छ्रुतम् । बलिहरणं च प्रसिद्ध्या भूतयज्ञ एव । तत्र २० कुतोऽग्नौ होमोऽतिथ्यादिदानं च । अथ वैश्वदेवं हि नामैतदिति वैश्वदेवशब्दः सर्वार्थतां प्रतिपादयति । विश्वेषां देवानामिदं विधीयते । सायंप्रातर्यादृशं प्रातस्तादृशमेव सायमेतदर्थमेव प्रातः शब्दः । अन्यथा प्रतिर्विहितमेव किमनेन सायंप्रातर्विधीयते । एवं तर्हि ब्रह्मयज्ञपितृयज्ञावपि कर्तव्यौ । उच्यते । अन्नस्य सिद्धस्येतिवचनाद्यदन्नसाध्यं तदेव कर्तव्यम् । न त्वध्ययनसाध्यो २५ ब्रह्मयज्ञो नाप्युदकसाध्यं तर्पणम् । एवं च संबन्धः क्रियते । सिद्धस्यान्नस्य For Private And Personal Use Only १ अर्थवाक्यम्-नेयम् २ ड निमन्य चानीतौ ३ ड पूर्वेषा ४ ड अथान्ये तत्स्वयमेवमेतत्परकीयम् ५ ड चोदितं च मधुपर्के दद्यादिति ६ उ कस्मैचित् ७ ड अत्रोच्यते ८ ड भाक्तिको विधिः ९ड पाञ्चयज्ञिको १० ड कतोऽमौ होमः ११ ड विधिगर्हितमेव १२ ड अन्नस्य च
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy