________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७
अध्यायः ]
मनुस्मृतिः। येऽपि गृह्याश्च देवताः पूजयेदित्यर्थवादवचनं देवतापदं मत्वा पूजयेदितिसंबन्धाद्गौणमेवारी ५ विधित्वं समर्थयन्ते । न हि मुख्यस्य देवतार्थस्य पूज्यत्वसंभवो यजिस्तुतिसम्बन्धेनैव देवतात्वस्य मुख्यत्वात् । तथा च गृह्या इत्याह । गृहे भवा गृह्याः। ताश्च प्रतिकृतय एव । न हि यागसंप्रदानभूतानां गृहसबन्धितासिद्धिः तेषामपि देवतार्थो गौणो न पूजार्थः । कुत एतद्गृहस्थस्य या यष्टव्यास्ता गृह्या इत्युपपद्यते ॥ ११७ ॥
अंघ स केवलं भुते यः पचत्यात्मकारणात् ॥
यज्ञशिष्टाशनं ह्येतत्सतामन विधीयते ॥ ११८ ॥ पापं केवलं स भुङ्क्ते हृदये निधत्ते गृह्णाति नान्नस्य मात्रामपि यः पचेत्पाकं कारयेदात्मकारणादात्मानमुद्दिश्य क्षुधितोऽहमिदं वा मह्यं रोचत इति तदेव पच्यताम् । तस्मादनातुरेण नात्मार्थमन्नं मृषा पचनीयम् । आतुरस्य तु शरीर धारणं येनोपायेन भवति विध्यन्तरेणातिक्रमेणापि तस्याश्रयणं युक्तम् । “सर्वत एवात्मानं गोपायेत्।। इति वचनात् । एवं १५ केचिदस्यार्थमाहुः । एतद्युक्तं स्मृत्यन्तरविरोधात् ॥ ११८ ॥
___राजत्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् ।।
अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः॥ ११९ ॥ अतिथिपूजाप्रसङ्गेनान्येषामपि केषांचित्पूज्यानां गृहागतानां पूजाविशेषो विधीयते । राजाऽभिषिक्तो न क्षत्रियमात्रम् । अतिमहती ह्येषा पूजा न तां सर्वः क्षत्रियोऽर्हति । न हि २० स्नातकगुरुभ्यां तस्य सहोपदेशो युक्तः । पूजासाम्यं गुरुणा न तस्य युक्तम् । लिङ्गदर्शनाच । तद्यथैवान्यो मनुष्यराज आगत इत्यातिथ्येष्टिब्राह्मणं गोवधो मधुपर्कविधायुक्तो गोघ्नोऽतिथिरिति पुरुषराजविषयं दर्शयति । तेन क्षत्रियेऽक्षत्रिये वा जनपदेश्वरे पूजेयं प्रयोक्तव्या । शूद्रे तु नास्ति मन्त्रवत्त्वम् ।
ननु च शूद्रस्य मन्त्रोच्चारणं निषिद्धं न पुनः शूद्रसंप्रदानके कर्मणि ब्राह्मणादी- २५
१ [ यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तगुणवते देयं तदेवाक्षयमिच्छता॥
[ ( १ ) मेधातिथिः । एवं ह्याहुः दयितमिष्टं स्पृहणीयम् । यदि च न पच्येत कुतस्तादृशस्य दानसंभवस्तस्मादयमस्यार्थः । तदुद्देशस्तावन्नित्यस्य पाकस्य नैव विद्यते सुहृत्स्वजनादिष्वागतेषु तदुद्देशः । अन्यथा त्वनुद्दिष्टविशेषपाके अतिथ्यादिभ्यो दानं विधीयते तेनैतदुक्तं भवति । य एतेभ्योऽदत्त्वा भुके तस्यायं दोषः। अथवा सर्वस्मिन्नतिथ्यादिभि के नात्मा पुनः पाकः कर्तव्यः तथाच वसिष्ठः (अ.११ सू-११।१२) शेषं दम्पती भुञ्जीयाताम्।सर्वोपयोगे न पुनः पाकः।
यज्ञशिष्टाशनं पूर्वस्य शेषभोजनस्य प्रशंसैव । यज्ञो ज्योतिष्टोमादिः। शिष्टमुपयुक्तशेषं तस्य चैतदर्शनम् । तत्तुल्यफलं यत्सता शास्त्रानुष्ठानपराणां गृहस्थानामतिथ्यादिभुक्तशिष्टं विधीयते॥१॥
२ ड उपभुक्त
For Private And Personal Use Only