SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ख्यातः । कुटुम्बं गृहं तत्र प्राप्तावागतौ वैश्यशूद्रावपि भोजयेत् । क्षत्रियवत्तयोस्तु 'भोजनकालः क्षत्रियकालात्परेण। यत आह । भोजयेत्सह भृत्यैस्तौ । भृत्या अत्र दासा उच्यन्ते । तेषां च भोजनकालो भुक्तवत्स्वतिथिज्ञातिबान्धवेषु सर्वेष्वग्दम्पतिभ्याम् । सहशब्द एककालतामात्रलक्षणार्थ: । आनृशंस्यं कारुण्यमनुकम्पां प्रयोजयन् प्रमाणीकुर्वन्नाश्रयन्निति यावत् । अनेन पूज्यतां वारयति । अनुग्राह्यो ह्यनुकम्प्यो न पूज्यः । अनुकम्प्येषु यदि च शक्यतेऽनुग्रहः कर्तुं ततः क्रियतेऽभ्युदयार्थिना न त्वकरणादतिथेरतिक्रमः । एतदुक्तं भवति । यादृशोऽतिथिभोजनादुत्कृष्टो धर्मः । अनुकम्प्यानुग्रहन्न तादृशस्ततो निकृष्टः ॥ ११२ ॥ इतरानपि सख्यादीन्संप्रीत्या गृहमागतान् ॥ प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ११३ ॥ २३५ सखा मित्रं स आदिर्येषाम् । आदिशब्दः प्रकारे ज्ञातिबन्धुसंगत सहाध्यायिप्रभून्गृह्णाति गुरुवर्जम् । संमीत्याऽऽगतान् । अतिश्रेर्धर्मस्य प्रकृतत्वान्निषेधार्थं संप्रीतिग्रहणम् । तान्भोजयेत् । प्रकृत्य प्रकर्षेणान्नं कृत्वा संस्कृत्य यथाशक्तीति उपलक्षणार्थ: शक्तिशब्दः । यावती शक्तिर्यादृशं च योऽर्हति तमुद्दिश्य तादृश एव संस्कारः कर्तव्यः । १५ भार्यया सह यो भर्तुर्भोजनकाल: स एव भार्याया अपि । पृथक्तस्या भोजनकालस्याभावात् । एवं ह्युक्तम् “ अवशिष्टं तु दम्पती " ( ११६ लोके ) इति । महाभारते पत्युरूर्ध्व भार्याया भोजनं दर्शितम् । द्रौपदीसत्यभामासंवादे द्रौपद्या स्त्रीधर्मान्कथयन्त्यो " सर्वेषु पतिषु भुक्तवत्सु शेषान्नमश्नामि " । पतिशेषान्न भोजनं स्त्रीणां धर्मः तस्मान भार्याभोजनकाले सख्यादीनां भोजनं विधीयते । नाप्येकपात्राशनं सहार्थः । किं र्ता २० नैकाकिनस्ते भोजयितव्याः । अपि तु भार्याऽपि तत्र भुञ्जीत । ततश्चावशिष्टां तु दम्पतीति तदत्र बाध्यते । यदि पत्युः कश्चिदभ्यर्हितः प्रतीक्ष्यः स्यादन्यो वा ज भुञ्जीत । तदा भार्या तद्देशे भुञ्जीत । एवं सौहार्द प्रकाशितं भविष्यति ॥ ११३ ॥ . For Private And Personal Use Only १० स्वैवासिनी: कुमारीच रोगिणो गर्भिणीः स्त्रियः ॥ अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् ॥ ११४ ॥ २५ 1 स्ववासिन्यो वध्वो नवोढा स्त्रियः स्नुषा दुहितरश्च । अन्ये तु जीवच्छशुरा जीवत्पितृकाश्च प्रसूता अपि स्ववासिन्य उच्यन्ते इत्याहुः । अतिथिभ्योऽन्वगेवैताननुग तानेत्र १ ड अनुग्रहात्वन्यादृशोऽन्तन्तो निष्कृष्टः । २फ भोक्तृ ३ ड अविशिष्टं ४फ प्रतीक्षकः ५ फ सुवासिनी:
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy