SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ मेधातिथिभाष्यसमलंकृता । [ तृतीय अग्नावपि होमो नेप्यते । न केवलं बलिहरणम् । यतः सायंप्रातः पाके होमो बलिहरणम् । न चान्तरालिके। तथा च वक्ष्यति (१२१ श्लोके) "सायं त्वन्नस्य'' इति । एवं च यद्यप्यसकृदह्नः पचेत्तथापि न प्रतिपाकं वैश्वदेवमावर्तेत । यथाशक्ति संस्कारविशेषेणेतरथा वा ॥ १०८ ॥ न भोजनार्थ स्वे विप्रः कुलगोत्रे निवेदयेत् ॥ भोजनार्थ हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ १०९ ॥ प्रासङ्गिकोऽतिथेरयमुपदेशः । भोजनायेंतत्कुलीनोऽमुष्य पुत्रोऽस्मीति न निवेदयेन्न कथयेत् । स्वे कुलगोत्रे आत्मीयं कुलं पितृपितामहाद्यभिजनो गोत्रं गर्गभार्गवादि नामधेयं वा । गोत्रस्खलितं नामान्तरविवक्षायां यन्नामान्तरमुदाह्रियते तदुच्यते । अध्ययन मपि स्मृत्यन्तरप्रतिषिद्धं तदपि न निवेद्यम् । अस्यार्थवादः भोजनार्थ भोजनं लिप्से १० प्रख्यातकुलजातित्वादित्यनेनार्थेन हेतुना कुलगोत्रे शंसन्कथयन्वान्ताशी वान्तमुद्गीर्णमश्नाति गिगिरतीत्येवमुच्यते बुधैः ॥ १०९ ॥ न ब्राह्मणस्य त्वतिथिगृहे राजन्य उच्यते ॥ वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ११० ॥ क्षत्रियो ब्राह्मणस्याध्वनीनोऽपि प्रथमभोजनकाल उपस्थितोऽपि नातिथिः । १५ अतो न रास्मै नियमतो देयम् । एवं वैश्यशूद्राभ्यामपि । सखिज्ञाती आत्मसमे नातिथी गुरुः प्रभुवदुपचयः “ निवेद्य वचनक्रिया " इत्युक्तम् ॥ ११० ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ॥ भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ १११ ॥ तत्रातिथेधर्मः क्षीणपथ्योदनत्वं परग्रामवासो भोजनकालोपस्थानम् । तादृशेन २० रूपेण यदि क्षत्रियो गृहमागतो भवति तदा तमपि भोजयेत् । भोजनवचनादन्या परिचर्या निवर्तते । प्रियहितवचनं त्वविशेषेण गृहाभ्यागतस्य विहितम् । अयं च तस्य भोजनस्य कालः । भुक्तवत्सु विप्रेषु ब्राह्मणेष्वनतिथिषु वा गृहसंनिहितेषु प्रथमभोनिषु ततः स भोजयितव्यः । काममिति नियमाभावमाह । काम्योऽयं विधिन नित्य इत्यर्थः । काम श्वानिर्दिष्टः विशेषफलेषु स्वर्गः । यदि वा " धन्यं यशस्यम् ” इत्याद्यत्र २५ संबन्धनीयम् ॥ १११॥ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ॥ भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ११२ ॥ अतिधर्मोऽतिथिधर्मः । स ययोरस्ति तावतिथिधर्मिणौ । अतिथिधर्मश्च प्राग्व्या'ड विशेषेण गृहस्थस्या । २ श्लोके १०६ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy