________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
अध्यायः ]
मनुस्मृतिः। अपणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ॥
काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत् ॥ १०५ ॥ सायंकालोऽस्तमयादिः प्रदोषांतः । तस्यां वेलायामतिथिरागतोऽप्रणोद्यः अप्रत्याख्येयो भोजनशयनासनादिभिः प्रतिपूज्यः । केन गृहमेधिना मेधो । यज्ञः । गृहमेधो महायज्ञानामियमाख्या । तत्राधिकारी गृहमेधी । गृहस्थ इति यावत् । सूर्योढ इत्यर्थवादः, ५ सूर्येणोढः प्रापितः । दैवोपनीतत्वादवश्यं पूजार्हः । काले द्वितीये वैश्वदेवकाले प्राप्तः अकाले वा सायं भोजने निवृत्तेऽपि नास्य गृहस्थस्यानश्नन्गृहे वसेत् । यदि शेषमस्ति तन्निवेदनीयम् । न चेद्धि पाकः कर्तव्यः ॥ १० ॥
न वै स्वयं तदनीयादतिथिं यन्न भोजयेत् ॥
धन्यं यशस्यमायुष्यं स्वयं वाऽतिथिपूजनम् ॥ १०६ ।। सूपघृतदधिशर्करादि यदुत्कृष्टमन्नं तत्स्वयं नाश्नीयादतिथौ संनिहिते यावत्तस्मै न १० दत्तम् । यत्तु आतुरस्य यवागूरसकटुकादि तदनिच्छते न देयम् । तादृशमदत्तमश्नतो न दोषः । सर्वथा न संस्कृतमन्नं स्वयं भोक्तव्यं कदन्नमतिथिर्न भोजनीय इत्येवंपरमेतत् । धनाय हितं धनस्य निमित्तं वेति धन्यम् । एवं यशस्यादयः शब्दाः । अर्थवादोऽयं नित्य त्वादतिथिभोजनस्य सति संनिधानेऽतिथेः पूर्वशेषत्वाच्च । स्तुतित्वेनान्वये संभवति नाधिकरणान्तरकल्पना युक्ता ॥ १०६ ॥
आसनावसथौ शय्यामनुव्रज्यामुपासनम् ॥
उत्तमेघूत्तमं कुर्याद्धीने हीनं समे समम् ॥ १०७ ॥ बहुष्वतिथिषु युगपदुपस्थितप्वितरेतरं समहीनज्यायस्स्वासनादिप्रकल्पनं गुणापेक्षं नाविशेषेण । आसनं वृस्यादि । आवसथं विश्रामभूमिः । शय्या खट्टादि । अनुव्रज्या गच्छतोऽनुगमनम् । उपासनं तत्समीपे कथाप्रस्तावेन संनिधानम् । एतदुत्तमेषूत्तमम् । २० दूरमनुव्रज्यत उत्तमः नातिदूरं मध्यमः कतिचिदित्पदानि हीनः ॥ १०७ ॥
वैश्वदेवे तु निहत्ते यद्यन्योऽतिथिराव्रजेत् ॥
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ १०८ ॥ सर्वार्थमन्नं वैश्वदेवशब्देनोच्यते । तस्मिन्निवृत्ते निष्पन्ने भुक्तवत्सु सर्वेषु निःशेषितेऽन्ने यद्यन्योऽतिथिरागच्छेत्तस्मै दद्यात्पुनः पक्वान्नम् । न तु तस्मात्पाकबलिं हरेत् । २५
१ ड-क्ष गृहमधिनाम् २ ड पटुकादि ३ अ क क्ष फ चेति ४ ड यशस्यादयोऽापे अधिकारान्तर कल्पना ६ अ क क्ष व न विशेषेण ८ ड तस्मै चानं क ब क्ष तथाऽप्यन्नं
५
For Private And Personal Use Only