________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२३९
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः
नातिप्रसिद्धो लोकेऽतिथिशब्दार्थ इति तदर्थलक्षणमाह । एकरात्रं वसतः परगृहेऽतिथित्वम् । तच्च ब्राह्मणस्य न जात्यन्तरे । द्वितीयेऽह्नि पूजाविधौ कामचारोऽभ्युदयविशेषार्थिनस्तदधिकारो न नैयामिकः । तथा चापस्तम्बः (२।७।१६) "एकरात्रिं वासयेत् पार्थिवाँल्लोकानभिजयति । द्वितीयामान्तरिक्षांस्तृतीयां दिव्यान्" इति फलकामस्य द्वितीयादिरात्रिष्वधिकारं दर्शयति । अत्रैव निर्वचनं दाढर्यार्थमाह । अनित्यं हि स्थितिः । 1 रवि पूर्वस्यायं शब्दः । औणादिकैः कथंचिव्युत्पत्तिः ॥ १०२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा ॥
उपस्थित गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ १०३ ॥
एकस्मिन् यो वसति वैश्वदेव कालोपस्थितोऽपि नातिथिः । सांगतिकः सहाध्यायी संधिः । सख्युरन्यः तस्य ह्युत्तरत्र विधिर्भविष्यति (अग्रे ११० श्लोके) "वैश्यशूद्रौ सर्वाचेति" । योऽपि सर्वेण संगच्छते विचित्रपरिहासकथादिभिः सांगतिकशब्देन युक्तः प्रतिषेद्धुं प्रागदृष्टपूर्वोऽपि ।
न च गृहस्थस्य प्रोषितस्यास्य सर्वलक्षणलक्षितोऽप्यतिथिः । किं तर्हि उपस्थितं गृहे विद्यात् यत्रास्य नित्यं स्थानम् वसतिस्थानम् यदुच्यते प्रोषितस्यापि भार्या १९ यत्राग्नयश्च तत्रासंनिहितस्यापि गृहस्थस्य भवत्येवातिथिः । अतो यथा संविधायाग्निहोत्रदर्शपूर्णमासादिषु प्रवसति तद्वदतिथयेऽपि संविधातव्यम् । वाशब्दात्त्वेवं प्रतीयते । भार्याग्निभिः सह यदा प्रवासस्तदा भवत्येव ग्रामान्तरस्थस्याप्यतिथिः । असंनिहितस्यापि गृहे भार्याग्निषु सत्सु ततश्च यदि भार्यया सह प्रवसेदग्नयश्च गृह एव भवेयुस्तदा नातिथिपूजानियम इति । वाशब्द उपस्थितं गृहे विद्यादित्येतदपेक्षया न परस्परापेक्षया भार्या - २० ग्नीनाम् ॥ १०३॥
उपासते ये गृहस्थाः परपाकमबुद्धयः ॥
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ॥ १०४ ॥
उपासनं तदभ्यासः । यो ब्राह्मणोऽनयैव बुद्धया तत्र तत्रोपतिष्ठेत यथाऽतिथिरवश्य भोजनं लभेत तस्येयं निन्दा | यस्तच्छीलः परस्य संबन्धिनं पाकमन्नमुपास्ते न तु २१ कदाचित् । तेन कर्मणा प्रेत्य पशुतां बलीवर्दादिजातिं व्रजति प्राप्नोति । अन्नादि - दायिनस्तद्गृहे दन्तितां गर्दभतामश्वतां वा प्राप्नोति । गृहस्थस्यैष दोषः । उत्पन्नस्थाली - पाकस्य ॥ १०४ ॥
1
१ निर्वचनेन २ फ-यत्तस्यानित्यं स्थानम् । 3 परपाकात्रपुष्टस्य सततं गृहमेधिनः ॥ दत्तमि तपोऽधीतं यस्यान्नं तस्य तद्भवेत् ॥ अ क क्ष -नो स्थालपिाकस्य फ-दोषोत्पन्न स्थालीपाकस्य ।
For Private And Personal Use Only