________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ तृतीयः भूतान्यन्यानि कव्यानि श्राद्धानि भस्मभूतेषु भस्मतां प्राप्ता भस्मभूता । उपमाने वा भूतशब्दः । भस्मानीव यथा काष्ठभूत इति । किं पुनर्भस्मना साम्यं यथा तन्न क्वचिदुपयुज्यतेऽवकररूपमपोह्यमेवमीदृशो ब्राह्मणः क्रियाभ्योऽपोहितव्य इति तात्पर्यार्थः । नराणामविजानतां नश्यन्तीति संबन्धः । मोहादत्तानि दातृभिः। अविजानतां मोहादिति चानुवादः । यच्छास्त्रेणापोहितं तन्मोहादेव क्रियते ॥ ९७ ॥
__कीदृशाः पुनरभस्मभूतास्तानाहः । विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ॥
निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ९८ ॥ १० विद्यातपोभ्यां समृद्धास्तव्यतिरिक्ता भस्मभूताः । समृद्धिरतिशयिनी संपत्तिः । बहुविद्यय
महता च तपसा युक्ता एवमुच्यन्ते । समुदायसंबन्धिनी अपि विद्यातपसी संबन्धिसंबन्धा दवयवभूतमुखैः सामानाधिकरण्यं प्रतिपद्यते । विप्राणां मुखान्यग्नय इत्यत्र व्याघ्रादेराकृतिगणत्वात्समासः । यथाऽनौ हुतं फलवद्भस्मनि हुतं निष्फलमेवमीदृशं भोजनंब्राह्मणमुखनिक्षिप्त हुतमिति भोजनमेव स्तुत्योच्यते । यागहोमादिमहाफलतया प्रसिद्धम् अतः प्रख्याततमगुणेनाप्रख्यातमुपमीयते । निस्तारयति दुर्गात् दुर्ग व्याधिशत्रुराजपीडादि । जीवितमुपस्थितम् । ततो निस्तारयति रक्षति न तेन संमृश्यते । महतश्च पापात्परलोकेऽपि नरकादिगतेस्त्रायते। न केवलमाभ्युदयिककर्मेदृक्पात्रविषयम् । प्रायश्चित्ताथैमपि तद्गुणायैव दातव्यम् ॥ ९८ ॥
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ ९९ ॥ संप्राप्ताय स्वयमुपस्थिताय न तु निमन्त्रिताय । न हि निमन्त्रितोऽतिथिर्भवति प्राप्तिदेशं च वक्ष्यति (अग्रे १०३ श्लो.) "भार्या यत्राग्नयोऽपि वा” इति । आसनोदके दद्यात् पादधावनोपयोगि प्रथममुदकं तत आसनं भोजनं च । यथाशक्ति संस्कृत्येत्यन्न विशेषणम् । सविशेषमन्नं संस्कृत्य दद्याद्भोजयेत् । विधिपूर्वकं विधिः पूर्वो यास्मिन्दाने २५ तदेवमुच्यते । विधिः शास्त्रं तत्पूर्व निमित्तं प्रमाणमित्यर्थः ॥ ९९ ॥
शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ॥
सर्व सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ १० ॥ १ अनर्हते यद्ददाति न ददाति यदईते ॥ अहनिर्हापरिज्ञानाद्धनी धर्मान हीयते ॥१॥ काले न्यायागतं पात्रे विधिवत्प्रतिपादितम् ॥ ददाति परमं सौख्यमिहलोके परत्र च ॥ २॥ प्रतिग्रहेण शुद्धेन शस्त्रेण क्रयविक्रयात् ॥ यथाक्रमं द्विजातीनां धनं न्यायादुपागतम् ॥ ३ ॥] ३०
* २ ड-अतिशयवती : ड-भूते: । ड-क्ष-कर्मणाम् ५ अ-क-ड-ब-क्ष-फ-प्रायश्चित्तार्द्धमपि ६ इ-संदेशं ।
For Private And Personal Use Only