SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । २९९ अथवा मिक्षुः परिव्राड् ब्रह्मचारी प्रथमाश्रमी चशब्दश्चास्थाने वृत्तानुरोधात् ब्रह्मचारिणे चेति पठितव्यम् । एवं तु वानप्रस्थाय न दानं स्यात् । तस्माद्भिक्ष इति भिक्षुस्तस्यैव विशेषणं ब्रह्मचारिग्रहणम् । तेन त्रिभ्योऽप्याश्रमिभ्यो भिक्षादानं नियमतो ऽनुज्ञातं भवति । पाखण्डादीनां तु पतितादिवत् । सर्वग्रहणेन भिक्षोपकारो यथाशक्ति विहित एव ॥ ९४॥ यत्पुण्यफलमामोति गां दत्वा विधिवद्गुरोः ॥ तत्पुण्यफलमानोति भिक्षां दत्वा द्विजो गृही ॥ ९५ ॥ नित्यं भक्तदानमर्थिने शक्तितो दातव्यम् । इदं त्वधिकारान्तरम् । यद्गुरवे गा दत्त्वा फलमाप्नोति तद्भिक्षां दत्त्वा गोव्रतस्याविशिष्टमिति । स्मृत्यन्तरे सर्वफलता पापप्रमोचनार्थताऽपि गोदानस्य श्रुता यावतामल्पोपकाराणां महोपकारैः फलसाम्यमुच्यते तेषां १० लोकवत्परिमाणतः फलविशेषोऽवगन्तव्यः । प्राप्यते तदेव फलम् । न तु चिरकालमावच्यो ह्ययं न्यायः । “पणलभ्यं हि तत्प्राज्ञः क्रीणाति दशभिः पणैः " इति समानफलत्वे महाप्रयासानर्थक्यं प्राप्नोति । " अगुर्यथाविधीति " केचित्पठन्ति । तत्र नअल्पवचनो द्रष्टव्योऽल्पगुरिति । पुण्यं धर्मस्तस्य फलम् ॥ ९५ ॥ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ॥ वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ९६ ॥ अथ विधिवदित्युक्तं सोऽयं विधिरुच्यते । अप्रकृतस्योदपात्रस्य श्रवणं सर्वदा नृणां न भिक्षादानस्यैवेति दर्शयितुम् । सत्कृत्य पूजयित्वा । विधिः पूर्वो यस्य दानस्य तद्विधिपूर्वकम् । पूर्वशब्दः कारणवचनः। शास्त्रनिमित्तकमेतदित्यर्थः । इतिकर्तव्यता वा विधिः सा पूर्व कर्तव्या । उक्तं च पूर्व भिक्षादानं ददाति वेदस्य तत्त्वार्थः पारमा- २० र्थिको निःसंशयोऽर्थस्तं वेत्ति तस्मै ब्राह्मणायोपपादयेद्दद्यात् । ब्राह्मणायेति जातिनियमः । विदुष इति गुणनियमः । तेन यत्किंचिद्दातव्यं तद्ब्राह्मणाय तस्मै च वेदार्थविदे पूजापूर्वकमित्यर्थः । त्रयविधानं सर्व ददात्यर्थोद्देशेन पौरुषेयत्वान्नानाकारार्थविधानं प्राप्ते दाने दोषः ॥ ९६ ॥ नश्यन्ति हव्यकव्यानि नराणामविजानताम् ॥ भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥ ९७ ॥ पूर्वेण यादृशे देयं तत्पात्रमुक्तम् । अनेनापात्रे ददतः प्रतिषेधः । नश्यन्ति निष्फलानि भवन्ति हव्यानि देवतोद्देशेन यानि ब्राह्मणभोजनादीनि क्रियन्ते । पित्र्यकर्माङ्ग १ गां दत्वाऽगुर्यथाविधि । २ फ आवाच्यो For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy