SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ मेधातिथिभाष्यसमलंकृता । [ तृतायः मयुक्तम् । देवतापेक्षया वा दृष्टः कश्चिदर्थः कल्पयितव्यः । बलिशेषं शेषग्रहणात्पात्रे समुद्धृत्य ततो होमः कर्तव्यः । न तु स्थालीस्थादेव बलिदानानि ग्रहीतव्यानि । दक्षिणतः दक्षिणस्यां दिशि तदभिमुख इति यावत् । सर्व यावन्मन्त्रगृहीतम् ॥ ९१ ॥ शुनां च पतितानां च श्वपचा पापरोगिणाम् ॥ वायसानां कुर्माणां च शनकैर्निवपेद्भुवि ॥ ९२ ॥ अन्नं पात्रे समुद्धृत्य श्वादीनामुपकाराय भुवि निःक्षिपेत् । पापरोगिणः कुष्ठिक्षय्यामयान्यादयः । वयांसि पक्षिणः । शनकै म्युत्थितरजसा यथा न संसृज्येत । भूग्रहणं न पात्रप्रतिषेधाय किं तर्हि श्वपचपतितकुष्ठिभ्यो न हस्ते दातव्यम् । उपकारविधानं चेदम् । अत एव षष्ठ्याऽयं श्लोकः पठ्यते।न चतुर्थ्यन्तेन । पक्षिणां तादृग्देशे विधातव्यं १० यत्राबिभ्यतः श्वादयः खादन्ति । कृमीणामिति तादृशे देशे यत्र तेषां संभवः ॥ ९२ ॥ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति ॥ स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ ९३ ॥ पूर्वस्योपसंहारः । सर्वग्रहणादन्येषामपि मृगकुक्कुटमार्जारादीनां ग्रामे संभवतामन्नेनोपकर्तव्यम् । अर्चतिरनुग्रहं न पूजायां,: श्वादीनां तदसंभवात् । अवज्ञानप्रतिषेधार्थ १५ चैवमुपात्तं नानुगृह्णातीति पठितम् । परं स्थानं धाम ब्रह्मप्राप्तिः । पथर्जुना न संसारयोनीर्बह्वीनाम्यति । किंपुनरेतत्फलविधानं नेति ब्रूमः। नित्योऽयं विधिरित्युक्तम् ॥ नित्ये च फलश्रवणमर्थवादः । न ह्यत्र विधिः श्रूयते । गच्छतीतिवर्तमानापदेशोऽयम् । तेजोमूर्तिः केवल तेनःशरीरः न पाञ्चभौतिकं शरीरमभिसंबध्यते बोधस्वभाव एव भवति । निष्कल्मषता २० वाऽनेन लक्ष्यते । शुद्धप्रकृतिर्भवतीत्यर्थः । भूतानुकम्पनं चेदम् । असति शास्त्रातिक्रमे पापसंबन्धस्याभावाच्छुद्धता युक्ता । इतरथा पापस्य मलरूपत्वान्न तेजोमूर्तिः । असति च पापे परं धाम श्रेष्ठमदुःखरूपं प्राप्नोतीत्येवं युक्तमेव ।। ९३ ॥ कृत्वैतद्धलिकमॆवमतिथि पूर्वमाशयेत् ॥ __भिक्षां च भिक्षवे दद्याविधिवब्रह्मचारिणे ॥ ९४ ॥ २५ अतिथिलक्षणं वक्ष्यति । तमभ्यागतं सन्तं पूर्वमाशयेद्भोजयेत् । सर्वभोक्तम्यो गृहसंनिहितेभ्यः भिक्षां भिक्षवे च याचमानाय दद्यात् । भिक्षाशब्देन स्वल्पपरिमाणमन्नदानमुच्यते । उक्तं हि "प्रसृतिभिक्षा" । अन्तःपुरप्रसिद्धं चैतत् । ब्रह्मचारिणे विधिवत् अन्यस्मा अपि पाखण्डादिरूपाय भिक्षवे न विधिवदातव्या । ब्रह्मचारिणे तु विधिवत्स्वस्तिवाचनपूर्व भिक्षादानमित्येष विधिः । --एतदपियुक्तमेव. For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy