________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
अध्यायः]
मनुस्मृतिः। निर्देशः । वनस्पतिभ्य इति मुसलोलूखले । द्वन्द्वैकवद्भावेन विकल्पितमाधारद्वयम् । निर्देशगुणवृत्त्या प्रधानभूताया आहुतेरावृत्तियुक्ता । न च मुसलोलूखलस्यैकीकृतस्याहुतिसंबन्धः शक्यः कर्तुं पृथक्त्वस्य तत्राप्युपलम्भात्। न हि क्षीरोदकवत् अनयोामिश्रणसंभवः । तत्र यधुलूखले क्रियते नेतरत्र होमः कृतः । अथोलूखलेन मुसलेन च भागश आहुतिः संभवति नियतपरिमाणत्वात् । द्वन्द्वनिर्देशोऽत्र संयुक्तयोरन्यतरत्र होमो ५ युक्तः ॥ ८॥
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः ॥ ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ८९ ॥
उच्छर्षिकं प्रसिद्धदेवताशरणं शीर्षस्थानं तत्र श्रियै बलिं कुर्यात् । पादतः अधोभागे गृहस्य भद्रकाल्यै। तस्या अपि स्थानं द्वारस्य पूर्वभागे । अन्ये उच्छीर्षकं गृहशयनस्य १० शिरोभागमाहुः, पादौ चास्याधोभागम् । तेन खटादावयं होमो भूप्रदेशे वा । गृहस्थशयनस्थाने ब्रह्मवास्तोष्पतिभ्यां सत्यपि द्वन्द्वनिर्देशे पृथगेते आहुती ब्रह्मणे वास्तोष्पतय इति च । यत्र तूमयदेवतात्वमग्नीषोमवत्तत्र सहग्रहणं समस्तग्रहणं वा करोति । तयोश्चैव समस्तयोः सह द्यावापृथिव्योश्चेति अप्रसिद्ध सहचर्यात् । वास्तुगृहं तन्मध्ये ॥८९॥
विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ॥ दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ ९०॥
च शब्दादेकैवेयमाहुतिः । विश्वेभ्यो देवेभ्य इति गृहाकाशे गृहान्निष्क्रम्य वा। दिवा दिवाचारिभ्यो नक्तं नक्तंचारिभ्यः । भतेभ्य इत्यनुषज्यते । केचिदेते आहुती सायंप्रातर्विभागेनाहुर्दिवाचारिभ्य इति तदयुक्तम् । सायममन्त्रहोमं वक्ष्यति । एतेन मन्त्रप्रतिषेधेन शब्दोद्देश्यता मा भन्मानसस्तूद्देशः केन निवार्यते । न च तेन विना २० होमसिद्धिः । एतदेव तु वक्तव्यं कृतोऽयं विभागावगमो गृह्यकारैरेवेति चेदस्तु ॥ ९ ॥
__ पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये ॥
पितृभ्यो बलिशेषं तु सर्व दक्षिणतो हरेत् ॥ ९१ ॥
पूर्वयोराहुत्योः शेषोऽयम् । आधारविधानार्थमाद्योऽर्धश्लोकः आवासकस्योपरि य आवासस्तत्पृष्ठवास्तु । एकशालाया अप्युपरिभागः । तत्र बलिं कुर्वीत दिवाचारिभ्यो २५ . नक्तंचारिभ्यश्च । सर्वान्नभूतये तादर्थे चतुर्थी न संप्रदाने होमाद्यश्रुतत्वावलिशब्दस्य पूर्वशेषत्वादाघारापेक्षत्वाच्च पूर्वयोराहुत्योः । न क्वचिदपि वैश्वदेवे सर्वान्नभूतिर्देवतात्वेन स्मृत्यन्तरे श्रुता। तस्मादयमस्यार्थः । सर्वेषामन्नानां कृप्त्यर्थमेतच्च कर्तव्यमेतस्मिन्बलिहरणे कृते सर्वाण्यन्नानि भवन्ति । अवयवप्रसिद्ध्या त्वर्थावगम उपपद्यमाने समुदायार्थकल्पन
1फ-तत्र
For Private And Personal Use Only