SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १९६ मेधातिथिभाष्यसमलंकृता । [ तृतीयः देवेभ्यो हविः संप्रदीयत इति याज्यान्ते पुनर्वषट्कारस्य विधानात् । स्मार्तहोमे त्वभावः । स्वाहाकारस्तु सर्वत्र । तस्मिंश्च सत्यग्नये स्वाहेति प्रयोगः ॥ ८४ ॥ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ॥ 1 १० स्वाहा ॥ ८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ।। ८५ । आदावित्यनुवादः । पाठक्रमेणैवाग्नेरादौ सिद्धत्वात्ते पृथगाहुती । तयोश्च समस्तयोरग्नीषोमाभ्यामिति विश्वेभ्यो देवेभ्य इति प्रयोगः । एकैवाहुतिर्धन्वन्तरये कुह्वै चैवानुमत्यै च प्रजापतय एव च ॥ सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ ८६ ॥ सह द्यावापृथिव्योः द्यावापृथिवीभ्यां स्वाहेति । तथा स्विष्टकृतेऽन्ततः स्विष्टकृदिति गुणपदम् । अग्निश्च गुणीभूतः स्वतः । स्मृत्यन्तरेऽग्नये स्विष्टकृत इति वचनात् श्रुतः सर्वहोमेष्वेव चाम्नानात् । अन्तत इति पाठात्सिद्धे वचनं स्मृत्यन्तरेऽधिकारमाहुतीनामाम्नानात्सति समुच्चये प्राक् स्विष्टकृत आवापः कर्तव्य इति दर्शयितुम् । ननु चैकत्वाद्धोमस्य देवताविकल्पो युक्तः । कुतः पुनरेकत्वं होमस्य । इयमेव ११ होमानामुत्पत्तिः " अग्नेः सोमस्य च " इत्यादि । तत्र चोत्पत्तावेव देवताविशेषेणावरुद्धत्वाद्भिन्ना एव होमाः प्रतीयन्ते ॥ ८६ ॥ एवं सम्यग्धविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् ॥ इन्द्रान्तकाष्पतीन्दुभ्यः सानुगेभ्यो वलि हरेत् ॥ ८७ ॥ सम्यगनन्यचित्ततया देवताध्यानपरः । एवमेताम्यो देवताभ्योऽग्नौ २० हुत्वा ततः सर्वासु दिक्षु यथासंख्यं प्रदक्षिणं प्रथमं प्राच्यां ततो दक्षिणस्यां इत्येष प्रदक्षिणावर्तमिन्द्रः अन्तकः अप्पतिः इन्दुः प्रतिदिवसम् । अपरश्चाह अहविर्भागिन्दुरिति । यदि नैतेन शब्देन बलिहरणं स्यात्कथमिन्दोर्हविर्भाक्त्वम् बलिहरणं च होम एवेति व्याख्यातम् । वृत्तभङ्गभयाच्चात्र ं न शब्दस्य रूपविवक्षेति स्मृत्यन्तरोपात्तैरेव शब्दैरुदेशः कर्तव्यः । सानुगेभ्यः अनुगा अनुचरास्तत्पुरुषाः । तथा चेन्द्रपुरुषेभ्य इत्यादि २५ प्रयोगः ॥ ८७ ॥ मरुद्भ्य इति तु द्वारि क्षिपेदस्वभ्य इत्यपि ॥ वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ८८ ॥ अत्रेतिकरणः रूपैविवक्षार्थः । अप्स्वित्यधिकरणम् । अद्भ्य इति देवता १ ड-स्मार्त होमे स्वाहाकारे स्वभावस्तु सर्वत्र । तस्मिंश्व सर्वमाश्रयेत् । स्वाहेति प्रयोगः । २ ड - हरेत् ३ फ- स्वरूपविवक्षार्थः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy