________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya she
अध्यायः
मनुस्मृतिः।
दद्यादहरहः श्राद्धमन्नाद्यनोदकेन वा॥
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ ८२ ॥
दद्यात् कुर्यात् । अहरहः प्रतिदिवसम् । श्राद्धं नाम्ना धर्मातिदेशः । श्राद्धं नाम पित्र्यं कर्मामावास्यायां विहितम् । तदीयेतिकर्तव्यता श्राद्धमित्यनेन नाम्नाऽतिदिश्यते ।
अन्नाद्येनेति । तिलैीहियवैरित्यादेरनुवादोऽयम् । उत्तरत्र विवक्षितार्थः । उदकेनेति ५ पयः क्षीरम् ॥ २ ॥
एकमप्याशयेद्विमं पित्रर्थ पाश्चयज्ञिके ॥ न चैवात्राशयेत्कंचिद्वैश्वदेवं प्रति द्विजम् ॥ ८३ ।।
श्राद्धशब्देन विधानात्सस्मिंस्ताद्विधाने प्राप्ते कश्चिदितिकर्तव्यताभागो निवर्त्यते । न चैवात्राशयेत्किचित् नात्रावाहिके श्राद्धे वैश्वदेवं प्रति विश्वान्देवानुद्दिश्य द्विजभोजनम् । १० अत्र केचिदाहुः । प्राप्ते भोजन आशयेदिति पुनर्वचनमपूर्वत्वमस्य दर्शयति । तेनैतावदेवैतच्छ्राद्धं यत्पितनुद्दिश्य ब्राह्मण एको मोज्यते न त्वन्या काचिदर्घपात्रादिहोमायेतिकर्तव्यताऽस्ति । ब्रह्मचर्य स्वाध्यायनिषेध इत्येवमादि न भवति । एकमप्याशयेद्विपम् । त्रयाणां नियमादेकैकमुभयत्रेत्यस्याविधित्वादप्राप्त एको विधीयते । एकमपि भोजयेत्सति संभवे बहूनपि । पित्रर्थ पितृतृप्त्यर्थम् । पाञ्चयज्ञिक पञ्चयज्ञभवं पाञ्चयज्ञिकं तदन्तर्गतम्। १५ पाञ्चयज्ञिकशब्दः श्राद्धे प्रयुक्तः। न ह्येतत् पाञ्चयज्ञिकं तर्पणम् । तेन तर्पणभोजनयोः समुच्चयः । अस्य तु विकल्पो भविष्यति यदेव तर्पयत्यद्भिरिति ॥ ८३ ॥
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ॥
आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ॥ ८४ ॥ विश्वेदेवार्थो वैश्वदेवः पाक उच्यते। सर्वार्थः विश्वदेवशब्दोऽपि संप्रदानमात्रोपलक्षणार्थः। २० तेनातिथ्याद्यर्थताऽयुक्ता भवति । सिद्धस्य होममाभ्यो वक्ष्यमाणाभ्यो देवताभ्यः कुर्यात् । सिद्धशब्देन देवतोद्देशेन देवस्य त्वेति मन्त्रवान्निर्वापो न कर्तव्य इति दर्शयति। केवलं सर्वार्थनिष्पन्नपाकेन होमादि कर्तव्यमिति विध्यर्थः । गृह्ये वा विधिहोमादिकरणनिर्देशविधिपूर्वकं समाचारप्राप्तां परिसमूहनपर्युक्षणादिरूपामितिकर्तव्यतामाह । ब्राह्मणशब्दस्त्रैवर्णिकाधिकारात् प्रदर्शनार्थः । अन्वहं नित्यमित्यर्थः । देवताग्रहणं स्वाहाकार. २५ प्राप्त्यर्थम् । षष्ठीनिर्देशादग्नेरिदमिति प्रयोगः स्यात् । देवताशब्देन तु स्वाहाकारेण वा
१फ कुर्यात् २ ड आहरन् क्ष फ-आदरन् । फ-पित्रर्थे । ड-नचैवान्याशयेत् ५ ड-न सत्पाञ्चयज्ञिकं तर्पणम् फ-पाश्चयशिकतर्पणम् ६ ड-सर्वार्थ निष्पन्नपाके ।
For Private And Personal Use Only