________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय: मनुस्मृतिः।
१२३ अपरेण प्रकारेण महायज्ञानामवश्यकर्तव्यतां दर्शयति । वायुः प्राणस्तमाश्रित्य सर्वे जीवन्ति । न ह्यप्राणस्य जीवितमस्ति, प्राणधारणमेव जीवनम्। जन्तुशब्दः प्राणिमात्रवचनः । सर्वग्रहणं देवर्षीणामप्यतिशययुक्तानां वाय्वायत्तमेव जीवनं एवं गृहस्थःप्राणतुल्यः सर्वाश्रमिणाम् । अतः सर्वोपजीवनीयेन भवितव्यमिति विद्धयर्थः । इतरग्रहणाद्यद्यपि गृहस्थादन्य आश्रमिणः प्रतीयन्ते तथापि न गृहस्थप्रतिषेधार्थमेतत् । स्नातकस्य हि विशेषे. णातिथ्यादिदानं विहितम् । तस्मादितरग्रहणं गृहस्थाश्रमतुल्यतार्थम् । न च श्रूयते नात्मनात्मनि वर्तन्ते शरीरकुटुम्बस्थितिं प्राप्नुवन्ति । इतरे च त आश्रमा इतराश्रमा इति समासः ॥ ७७ ॥
यस्मात्रयोऽप्याश्रमिणो ज्ञानेनानेन चान्वहम् ॥
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृहम् ॥ ७८ ॥ १० यस्मात्रयोऽप्याश्रमिणो ज्ञानेन वेदार्थव्याख्यानजन्येनान्नेन च धार्यन्त उपरि क्रियन्ते गृहस्थेन तस्माज्ज्येष्ठः श्रेष्ठ आश्रमो गृहम् । गृहीति पाठे बहुव्रीहिः । गृहमिति पाठे विशेषणसमासो ज्येष्ठाश्रम इति । अत्रापि गृहस्थैरेवेत्यौचित्यानुवादो न वानप्रस्थादीनामध्यापनादिप्रतिषेधः । वानप्रस्थस्य तावद्विहितमेतत् तानेव महायज्ञान्निपेदिति । प्रवजितस्य यद्यपि हिंसानुग्रहयोनारम्भ इत्यनुग्रहः प्रतिषिद्धस्तथापि वेदार्थव्याख्यानं भिक्षुशास्त्र विहितम् । ज्ञानवैराग्यभावताभ्यासातिशयविधानाच्च तयोर्नातिप्रयत्नो वेदार्थव्याख्याने । ब्रह्मचारिणस्त्वार्थलोपान्नाध्यापकत्वं भैक्षवृत्त्युपदेशाच्च कुतोऽन्नदानम् । अतो गृहस्थानामेव प्रायेण तत्संभवादेवमुक्तं गृहस्थैरेव ॥ ७८ ॥
स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ॥
सुखं चेहेच्छता नित्यं योऽधार्यो दुर्वलेन्द्रियैः ॥ ७९ ॥ २० स गृहाश्रयः । प्रयत्नेन संधार्योऽनुष्ठेयोऽक्षयस्वर्गकामेनेह च सुखमिच्छता। अत्यन्तैशब्दो नित्यतां गमयति । य आश्रमोऽधार्योऽशक्यं धारयितुं दुर्बलेन्द्रियैः। एतदुक्तं भवति । वर्तः स्त्रीसंभोगसुसंस्कृतभोजनादि गृहस्थस्यावश्यंभावि ततश्चेन्द्रियाणां विषयसक्तौ दोषेण किमुच्यते । प्रयत्नेन आश्रमान्तरेभ्यो धारयितव्यः । अत्रापि महानिन्द्रियसंयमः । अनृतौ न गन्तव्यं परदारा न गन्तव्याः शेषान्नं भोक्तव्यं विषयसं- २९ निधाने यो नियमः स दुष्करः । स्वर्गमक्षयमिति नानेन सर्वेषां गृहस्थकर्मणां स्वर्गफल
-
१फ गृही। २ सुख । . उ अत्यन्तं । । फ सत्कार्यः । ५ उ अत्यन्तं यस्य मुखाद्यस्तो मास्ति । (उन सोसंभोगम् ।
For Private And Personal Use Only