SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ मेधातिथिमाष्यसमलंकृता । [ तृतीयः वा कश्चिद्धर्मो विहित इति नोक्तः सोऽपि ग्रहीतव्य इति संज्ञान्तरनिर्देशे द्वितीयं प्रयोजनम् । यथा ब्रह्मयज्ञश्राद्धोद्वाहपरिक्रियेत्यादि । ७३ ॥ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः॥ ब्राहयं हुतं द्विजाय्यार्चा पाशितं पितृतर्पणम् ॥ ७४ ॥ योऽयमहुतो नाम यज्ञ उक्तः स जपो वेदितव्यः। "स्वाध्यायेनार्चयेदृषीन् इति"श्रवणाद्वेदाध्ययनं जपार्थः । यद्वा मानसे व्यापारे स्मरणम् । उभयत्रापि जपतिः पठ्यते व्यक्तायां वाचि मानसे चेति । अग्नौ होमो हुतम् । भूतबलिः प्रहुतम् । यद्ययं होमस्तथाप्यग्नौ बाहुल्येन होमानां प्रसिद्धे तयज्ञो न होम इत्याशङ्कायां प्रहुत इत्युक्तम् । प्रकर्षणासौ होम इति स्तुत्या । द्विजाग्र्यानां ब्राह्मणानामर्चा ब्राह्यं हुतम् । आतिथ्यकर्म १०. द्विजाग्याचा ॥ ७४ ॥ स्वाध्याये नित्ययुक्तः स्यादैवे चैवेह कर्मणि ॥ दैवकर्मणि युक्तो हि विभर्तीदं चराचरम् ॥ ७५ ॥ यदुक्तं पञ्चसु महायज्ञेष्वेकैकस्मिन्पृथगधिकारो न समुदाय एकोऽधिकार इति तदनेन प्रकटीकरोति । यदा दारिद्रयादिदोषादन्यतो वा कारणात्कथंचिदसंपत्तौ नातिथ्यादिपूजा १५ घटेत ततः स्वाध्याये नित्ययुक्तेन भवितव्यम् । दैवकर्मणि वैश्वदेवदेवताभ्योऽग्नौ होमो दैवं कर्म । भूतयज्ञपितृयज्ञयोः सत्यपि दैवत्वे प्रकरणादग्नावेव होमो दैवमुच्यते । अत्र अर्थवादमाह । दैवे कर्मणि युक्तः तत्परो बिभर्ति धारयति चराचरं स्थावरं जङ्गमं च सर्वस्य जगतः स्थितेर्हेतुर्भवतीत्यर्थः ॥ ७९ ॥ कथं पुनरम्याहुत्या सर्वस्य जगतः स्थितिर्भवतीत्यत आह अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥ आदित्याज्जायते दृष्टिर्खष्टेरन्नं ततः प्रजाः ॥७६ ॥ अग्नौ यजमानेन प्रास्ता क्षिप्ताऽऽहुतिहूयमानं चरुपुरोडाशाद्युच्यते । आदित्य. मदृश्येन रूपेण प्राप्नोति । सर्वरसानामाहर्ताऽऽदित्योऽत आहुतिरसस्यादित्यप्राप्तिरुच्यते । अतः स रस आदित्यरश्मिषु कालेन परिपक्को वृष्टिरूपेण जायते। ततोऽन्नं ब्रीह्यादि ततः २५ प्रजाः सर्वप्राणिनः । एवमग्नौ जुह्वत्सर्वनगनुग्रहे वर्तते यजमानः । पूर्वस्य विधेः शेषोऽ___ यं न पुनर्यथाश्रुतार्थनिष्ठः । तत्त्वे हि वृष्टिकामस्याधिकारः स्यात् । न च तच्छ्रुतस्य प्रकृतशेषतयाऽन्वयसंभवेन कल्पनाया अवसरः ॥ ७६ ॥ यों वायुं समाश्रित्य सर्वे जीवन्ति जन्तवः ॥ तथा गृहस्थमाश्रित्य वर्तन्ते इतराश्रमाः॥ ७७॥ १ड-श्रातनिर्वृत्ते हि । [यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् । एवमाश्रमिणः सर्वे गृहस्थे यान्ति सस्थितिम् ॥] ३ फ-वर्तन्ते सर्वजन्तवः । ड-सर्व आश्रमाः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy