________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९
अध्यायः]
मनुस्मृतिः। पदमधीयीत किमनुमानेन । स्वशब्दाईलीयसी प्रतिपत्तिः । प्रायश्चित्तार्थत्वे त्वेकादशेऽभिधानं न युक्तं निषेधैरेवाननुष्ठानमेव स्यात् । अपरिहार्यत्वाच्च चुल्लचादीनामशक्यो निषेधः । असति च निषेधे कुतः प्रायश्चित्तम् । तस्मान्न दोषविघातार्थ पञ्चमहायज्ञाः । किं तर्हि नित्यसंबन्धेषु चुल्लयादिधारणेऽपि तदोषः तन्निष्कृ- ५ त्यर्थतया नित्यार्थतया नित्यत्वं यज्ञानामाह । वध्यते आदिवणे वेत्ये. तद्दन्तोष्ठयं पठ्यते । हन्यते दुष्कृतेन शरीरधनादिना नाश्यते । संबध्यते वा पापेन । परतन्त्रीकरणं वा बनातेरर्थः । वाहयन् स्वकार्ये व्यापरणं वाहनं यस्य चुल्लयादेर्यदौचित्यप्राप्तं स्वसाध्यं कार्य तत्ताभिः कुर्वन्वाहयन्नित्युच्यते । चुल्ली पाकस्थान भ्राष्ट्रादि । पेषणी दृषदुपलो वा । उपस्करो गृहोपयोगि भाण्डं कुण्डकटाहादि । १० कण्डनी यया ब्रीह्यादि कण्ज्यते । कुम्भो जलाधारः ॥ १८ ॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ॥
पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ६९ ॥ तासां चुल्लयादीनां सूनानां निष्कृत्यर्थं तदुत्पन्नदोषनिर्यातनाथ क्रमेणाधिलेपन चुल्लयास्तक्षणं पेषण्या इत्येवमादिक्रमः । महर्षिभिः कृप्ताः कर्तव्यतया स्मृताः पञ्च १५ महायज्ञाः प्रत्यहं गृहमेधिनां गृहस्थानाम् । गृहमेधिशब्दो गृहस्थाश्रमे वर्तते । प्रत्यहमिति । अनुपादानात्कालविशेषस्य यावज्जीवमिति प्रतीयते । अतश्च नित्यत्वसिद्धिः । महायज्ञा इति कर्मनामधेयमेतत् ॥ १९॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥
होमो दैवो बलिभ तो नृयज्ञोऽतिथिपूजनम् ॥ ७० ॥ १० एषामयं स्वरूपविधिः । अध्यापनशब्देनाध्ययनमपि गृह्यते येन जपो हुत इत्यत्र वक्ष्यति ( श्लो. ७४ ) । न च जपोऽपि शिष्यानपेक्षते सामान्येन श्रुतं स्वाध्यायेनर्षिभ्य इत्यूणावेदनश्रुतौ । अत उभे अध्यापनाध्ययने यथासंभवं ब्रह्मयज्ञः । तर्पणमन्नायेनोदकेन वेति वक्ष्यति (श्लो. ८२) । होमो वक्ष्यमाणाभ्यो देवताभ्योऽनौ। बलिः शिष्ट उलूखलादौ च । स भौतः भूतादिदेवताऽस्येति भौतः नामधेयमेतत्कर्मविशेषस्य । दिवाचारिभ्यो २९ भूतम्य इति हि तत्र बलिहरणं भूतशब्देन विहितम् । साहचर्यात्सर्व एष कर्मगणो भूतयज्ञशब्देनोच्यते । यथा चातुर्मास्येष्वेकं हविर्वैश्वदेवमामिक्षा कृत्स्नमेव च पर्व वैश्वदेवेन
१ ड-अवधीयीत २ ड-स्वशब्दाद्धि लघीयसी प्रतिपत्तिः ३ ड-निर्घातार्थ ड-चल्लयादिष्वारोपितासदोषनिष्कृत्यर्थे ५ ड-पच्यते ६ उ-व्यापारणम् . ह-अध्ययनं उ-सूर्पणं ९-भूतो १० इण्यत्वेन इति च
For Private And Personal Use Only