________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः]
मनुस्मृतिः। यदि हि स्त्री न रोचेत पुमांस न प्रमोदयेत् ॥ अममोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ६१॥ स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् ॥ तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ६२ ।। कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ॥ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ६३ ॥ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।। गोभिरषैश्च यानैश्च कृष्या राजोपसेवया ॥ ६४ ॥ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ॥ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ ६ ॥ मन्नतस्तु समृद्धानि कुलान्यल्पधनान्यपि ॥: कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ६६ ॥ वैवाहिकेऽसौ कुर्वीत गृह्यं कर्म यथाविधि ॥
पश्चयज्ञविधानं च पक्तिं चान्वाहिकी गृही ॥ १७ ॥ अतिक्रान्तं विवाहप्रकरणम् । कृतो विवाहो यस्मिन्नग्नौ तत्र कुर्वीत गृह्य कर्म । १५ अग्निसाध्यमष्टकापार्वणश्राद्धहोमादि गृह्यस्मृतिकारैरुक्तम् । पञ्चयज्ञा वक्ष्यमाणास्तेषां विधानमनुष्ठानम् । तस्मिन्नेवाग्नौ यद्यप्यविशेषेण पञ्चयज्ञविधानमित्युक्तं तथापि वैश्वदेवहोमोऽग्निसाध्यः । उदकतर्पणादौ तु म किंचिदग्निना कार्यम् । कथं तर्हि निर्देशोऽसौ पञ्चयज्ञविधानं कार्यमिति । केचिदाहुरेकाऽपि सप्तमी विषयभेदाद्भिद्यते । तस्मात्पञ्चयज्ञैकदेशे पञ्चयज्ञशब्दः प्रयुक्तः । अथवा पश्चयज्ञविधानमित्यत्रानाविति न संबध्यते । वैश्वदेवहोमस्य पूर्वेणै. २० वायधिकरणस्य सिद्धत्वात् । एवं संबन्धः क्रियते।गृही तु पञ्चयज्ञविधानं कुर्यात् । अग्नौ तु वैवाहिके गृहधर्मपक्तिं चान्वाहिकीमन्नावित्यपेक्ष्यते । गृहशब्दो दारवचनः । गृही तु सत्कृतवारपरिग्रहो भार्याद्वितीय इदमिदं कुर्यादिति । विवाहे चाग्निः कैश्चिद्गृह्यकारैरराणिनिर्मन्धनादाधातव्य इत्युक्तम् अपरैर्यतःकुताश्चद्दीप्यमानमानीय होतब्यमिति । अनेन तस्मिगृह्ममिति पंचनेन धारणमन्नेरादुक्तं भवति । अत्र केचिदाहुः शूद्रस्यापि वैवाहिकाग्नि- २५ धारणमस्ति तस्यापि पाकयज्ञाधिकारात् । न चात्र जातिविशेष उपात्तः केवलं गृहीति श्रुतम् । द्रोऽपि गृही तस्यापि दारपरिग्रहस्योक्तत्वात् । एतदेवान्यत्र पठितं “कर्म स्मात विवाहानौ कुर्वीत प्रत्यहं गृही" इति । अत्रोच्यते । गृह्यं कर्म वैवाहिकेऽग्नाविति श्रुतम् ।
१ यक्ष भर्ता च भार्ग च परस्परवशानुगौ । तदा धर्मार्थकामान्तं त्रयाणामपि संगतम् ।। २-लविवाहप तस्लिमो.-श्यमानम् । ४ याज्ञवल्कीये १९७
For Private And Personal Use Only