SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ तृतीयः किं वर्राद्धनाधिगमो विक्रयो भवति नेति ब्रूमः । ज्ञातयः कन्यायामधिकृताः । स्वार्थमाददते गृह्णन्ति तदा स विक्रयः । अर्हणं कन्यार्थे धनग्रहणं कन्यानां तदर्हणं पूजनं भवति । बहुमानः कन्यानामात्मनि भवति । ईदृश्यो वयं यद्धनं दत्वा विवाह्यामहे । अन्यत्रापि पूज्या भवन्ति सुभगा एता इति । आभरणादि वा तेन धनेन कर्तव्यमतोऽभ्यर्हिताः शोभावत्यो भवन्ति । आनृशंस्यमपापत्वं केवलं न स्वरूपोऽप्यधर्मगन्धोऽस्ति । अतोऽनेनार्थवादेन कन्याथै धनग्रहणं विधीयते ॥ १४ ॥ पितृभिर्धाभिश्चैताः पतिभिर्देवरैस्तथा ॥ पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ५५ ॥ न केवलं व दादातव्यं कन्याबन्धुभिरपि तु तैरपि दातव्यम् । पितृाभः १० साहचर्यापितृशब्दः पितामहपितृव्यादिषु वर्तते । ततो बहुवचनं व्यक्त्यपेक्षं वा बहुवचनम् । एवं पातीभः श्वशुरादिभिर्व्यक्त्यपेक्षं वा । देवराः पत्युीतर. । पूज्याः पुत्रजन्माद्युत्सवेषु निमन्त्रणपूर्वमानाश्रयबहुमानमादरेण भोजनादिना पूज्याः । भूषयितव्या वस्त्राद्यलंकारेणाङ्गलेपनादिभिर्मण्डयितव्याः । अत्र फलं वहुकल्याण मीप्सुभिः कल्याणं कमनीयं पुत्रधनादिसंपदरोगताऽपरिभव इत्यादिबहुशब्दात्सर्वमीप्सुभि१५ राप्तुमिच्छुभिः प्राप्तुकामैः। फलार्थो विधिरयम् ॥ ५५ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ॥ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ५ ॥ देवता रमन्ते तुष्यन्ति प्रसीदन्ति । प्रसन्नाश्च स्वामिन एवाभिप्रेतेन फलेन योजयन्ति । यत्र तु न पूज्यन्ते तत्र सर्वाः क्रियाः यागहोमदानाद्या देवताराधनबुद्ध्या २० चोपहारादयो याः क्रियन्तेऽफलास्ता इत्यर्थवादः ॥ ५६ ॥ शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ॥ न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ ५७ ॥ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ५८ ।। २५ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः॥ भूतिकामैनेरैर्नित्यं सत्कारेणूत्सवेषु च ॥ ५९ ॥ सन्तुष्टो भार्यया भर्ता भर्ना भार्या तथैव च ॥ यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ६० ॥ १ अ-ब-क-ड-क्ष किं वरात्मना गंधिनः विक्रयो भवति २ ड-अकन्यया भात्मनोऽधिकृताः ३ फ-वराय ४ड-इव For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy