________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । भ्यनुज्ञायते । किं पुनर्ब्रह्मचर्यस्य फलं विशेषाश्रवणात्स्वर्गः । क्वचित्तु श्रूयते । " न ब्रह्मचारी प्रत्यवैतीति " । स्वल्पैरतिक्रमैन दुष्यतीति ॥ ५० ॥
न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ॥ गृह्णञ्छुल्कं हि लोभेन स्यानरोऽपत्यविक्रयी ॥ ५१ ॥
आसुरे शुल्कप्रतिषेधोऽयं उत्तरत्रं च कन्यार्थसंग्रहोपादानात् । विद्वान्ग्रहदोषज्ञः। ५ कन्यापिता स्वल्पमप्यर्थे धनं न गृह्णीयात् । गृह्णानोऽपत्यविक्रयदोषेण युज्यते । कः पुनरेषः शुल्को नाम आभाषणपूर्व वराद्गृहीतम् । यत्र तूच्चनीचपणापणो भवति कन्यागुणापेक्षमूल्यव्यवस्था स क्रय एव । इह तु महागुणाया अपि कन्यायाः स्वल्पं धनमनाभाषणपूर्व वा ग्रहणम् । न विक्रयस्यैष धर्म इत्यतो विक्रयाध्यारोपेण निन्द्यते ॥ ११ ॥
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ॥
नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ।। ५२ ॥ स्त्रीनिमित्तानि धनानि कन्यादाने वराद्यानि गृह्यन्ते । पूर्वस्यैव शेषः । ये बान्धवाः पित्रादयः मोहादुपजीवन्ति यथोक्तं ज्ञातिभ्यो द्रविणं दत्वेति । सुवर्णरजतादि धनम् । नारीयानानि यानमश्वादि वस्त्रं वैतावन्मात्रमपि न जातूपजीवनीयं वासो यानादि किं पुनर्बहु । उपजीवतां फलमाचष्टे । ते ते पापाः शास्त्रप्रतिषिद्धसमाचरणा- १५ दधोगतिं नरकं यान्ति । अथवा स्त्रीधनानीति नवमे दर्शयिष्यति । तानि ये मोहादुपजीवन्ति बान्धवाः पिता तत्पक्षाश्च भर्ता भर्तृपक्षाश्च । एवं यानाद्येवं वस्त्रं स्त्रीणाम् बुद्धौ संनिधानाच्छाब्दः संनिधिः कल्प्यते यथा “राजपुरुषः कस्य राज्ञः" इति ॥५२॥
आर्षे गोमिथुनं शुल्कं केचिदाहुभ्रषैव तत् ॥
अल्पोऽप्येवं महान्वाऽपि तावानेव सं विक्रयः ॥ ५३॥ २० स्त्रीगवी च पुंगवश्व गोमिथुनम् । केचिदाहुरेतदोंदेयमिति ।मनोस्तु मतं मृषेच तत् मिथ्या नादेयमित्यर्थः । अल्पोऽप्येवम् । अल्पंसाधनोऽल्पः एवं महान् भवति तावानेव विक्रयः ॥ ५३ ॥
यासां नाददते शुल्कं सातयो न स विक्रयः ॥ अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् ॥ ५४॥
-उत्तरस्य च कन्यार्थस्य गृहस्पोपादानात् । २-माध्यानाभाष्यावरनिमित्तानम् ३९-कन्यादानेनफ-विक्रयस्तापदेव सः । ५ ड-एतद्देवमिति । ६ उ-अल्पमूल्यसाधनः। 7-अर्पण
For Private And Personal Use Only