SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। विनाऽप्यपत्यार्थेनोत्पन्नपुत्र ऋतावनुत्पन्नपुत्रो वाऽनृतौ सुरतसंभोगेच्छया तद्रत एनां व्रजेन्नात्मेच्छयेत्यर्थः । अथवा तच्छब्दो रतिकाम्ययेत्यत्रापेक्ष्यते स्मृतिशास्त्रत्वादस्य । तद्रतिकाम्यया पर्ववर्जमन्यत्रापि बनेत् तत्रैवाकारश्लेषो द्रष्टव्यः । अरतिकाम्यया आत्मन इति शेषः । यथा तु व्याख्यातं तथा न किंचिदत्राप्रश्लेषणापि तच्छब्दस्य समासोपसर्जनस्यासंबन्धेन पर्वाणि वक्ष्यति । अमावास्यामष्टमी च पौर्णमासीं चतुर्दशीमिति । स्वदारेषु ५ निरतः स्यात्तत्प्रीतिभावनापरः । अथवा स्वदारेष्वेव रमते न परदारान्रमयेदिति परदारप्रतिषेधः । सदा यावज्जीवमेततं परिपालनीयम् । अतः स्थितमेतत्रीणि वाक्यान्यत्र ऋतुकालाभिगामी स्यादित्येतदेकम् । अनुत्पन्नपुत्रस्य नियमानुवादरूपं द्वितीयम् । भार्याप्रयुक्तस्य पर्ववर्नमृतावनृतौ च न सुरतेच्छया स्वदारनिरत इति तृतीयम् । एषां च पदयोजना ऋतुकालाभिगामी स्यादपत्यार्थम् रतिकाम्यया तु तद्रत एनां व्रजेत् १० खदारनिरतश्च स्यात् ॥ ४५ ॥ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः॥ चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ ४६॥ ऋतुलक्षणार्थ श्लोकोऽयम् । वैद्यकादिशास्त्रावगम्योऽयमर्थो न विधिमूल एव । एवं "युग्मासु पुत्राः” इत्येतावपि श्लोकौ । षोडशरात्रयस्ताः स्त्रीणां मासि मासि स्वाभाविक १५ ऋतुः । प्रमाणान्तरमूलत्वाच्चाश्रुतमपि मासि मासीति गम्यते । स्वभावे भवः स्वाभाविकः स्वस्थप्रकृतीनां यो भवति व्याध्यादिना कस्याश्चित्प्राप्तकालोऽपि निवर्तते घृततिलाद्यौषधोपयोगेन रतिवशेन चाकालेऽपि संवर्तते । अतः स्वाभाविक ऋतुस्ता रात्रय उच्यते । चतुर्भिरितरैः चत्वार्यहानि यानि सद्भिर्विगर्हितानि प्रतिपिद्धस्त्रीस्पर्शसंभाषणादीनि तानि च प्रथमशोणितप्रदर्शनात्प्रभृति । अहम्रहणं च सर्वाहोरात्रोपलक्षणार्थम् तैः सह ॥ ४६ ॥ २० तासामाद्याश्चतस्रस्तु निन्दितैकादशी चं या ॥ त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः॥ ४७ ॥ तासां रात्रीणां या आद्याः प्रथमशोणितदर्शनाच्चतस्रस्ता निन्दिताः न तत्र गमनमस्ति । तिसृषु तावत्स्पर्शोऽपि नास्त्यशुचित्वात् । चतुझं तु स्नाताया वशिष्ठवचनात्सत्यपि शुचित्वे रतिसंभोगो नास्ति चतसृणां गर्हितत्ववचनात् । या चैकादशी या २५. च त्रयोदशी साऽपि निन्दिता । एवं प्रतिषिद्धगमने ऋतुदर्शनात्प्रभृत्येकादशीत्रयोदश्यौ गृह्यते । न चन्द्रतिथी । तासामिति निर्धारणविषयत्वेन रात्रीणां संन्धात्समानजातीयश्च १ड-क्ष-यथा For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy