SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ मेधातिथिभाष्यसमलंकृता । [ तृतीयः ननु च परिसंख्यां दोषत्रयवतीमाचक्षते । त्रयो हि तत्र दोषाः प्रादुःष्युः स्वार्थत्यागः परार्थकल्पना प्राप्तबाधश्च । पञ्च पञ्चनखा भक्ष्या इति यदाऽन्वयतः पञ्चनखविषयं भक्षणं प्रतीयते तदा तत्त्यक्तं भवति तद्वयतिरिक्तनिषेधपरत्वाद्वाक्यस्य ! अश्रुतम्भ निषेधोऽतः परार्थकल्पना । अर्थित्वाच्च सर्वविषयं भक्षणं यत्प्राप्तं तस्य बाधः । एवमेतेन परिसंख्यायां त्रयो दोषाः । नैतत्सारम् । सत्यर्थित्वे श्रुत्यर्थासंभवे वाक्यस्यानर्थक्यं मा 1 भूदित्येतत्परता न विरुद्धा | “ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्या नखिष्विव " || Acharya Shri Kailassagarsuri Gyanmandir किं पुनरत्र युक्तं तत्र चान्यत्र च प्राप्तौ परिसंख्यालक्षणस्य विद्यमानत्वात्परि- १० संख्येति । ऋतावपि गमनं प्राप्तमनृतावपि । न तु यदर्तौ तदानृताविति । यथा सत्यर्थित्वे भोजनं तत्र नियमोऽश्राद्धम् न पुनराहारत्यागेन अश्राद्धमेव भुञ्जान आस्ते । एवमिह सति खेदे यद्गमनं तत्र नियमोऽनृतौ न गच्छेदित्यवगच्छति । अर्थित्वाच्च गमने प्रसक्ते कालविधानपरतैव युक्ता वाक्यस्य । अन्यथाऽनारब्धोऽर्थ उपदिष्टः स्यात् । किंचापत्योत्पत्तिविधेः कृतविवाहस्यानुष्ठेयत्वादृतौ च तत्संभवात्प्राप्तमेष गमनम् । उत्पन्न१९ पुत्रस्य च न द्वितीयपुत्रोत्पादनं वैधम् । अपत्यमुत्पादयेदित्येकत्वविवक्षायां विद्ध्यर्थनिवृत्तेः । न च गमनमेवादृष्टार्थतया शक्यं विधातुम् । संस्कारविधित्वादधिकार ग्रहणात्कल्पनाया शक्यत्वादपत्येोत्पत्तिविध्याक्षे पाहतौ गमनस्य । यदि चात्रर्तावुपेयादिति तदनृतुप्रतिषेधार्थम् । तत्रानुवादः परं परिसंख्या । तत्र ह्यर्थान्तरलक्षणयाऽप्यर्थवत्ता भवति । एवं कृत्वा गौतमयेनाविप्रतिपत्तिः । एवं तत्रोक्तम् । " ऋतावुपेयात्सर्वत्र २० वा प्रतिषिद्धवर्जम्” (अ. ५ सू. १ - २ ) इति । सर्वत्र वेत्येष विकल्पः कामचारानुज्ञानार्थः । न पुनः सर्वदर्सावनृतौ च नियमोपपत्तिः । यदि च पूर्वत्रर्तावुपेयादिति नियमः सर्वत्र वेत्यत्रापि I स एवोपेयादित्यनुप्रयुज्यमानशब्दो नियमार्थः प्राप्नोति एकप्रक्रमत्वात्तेर्हि स एव शब्दः पुनरनुच्चार्यमाणो भिन्नार्थो भवितुं युक्तः । न वर्तेरन्यत्र नियमार्थतोपपद्यते इत्युक्तम् 1 तस्मादृतौ गमनवचनमनृतौ प्रतिषेधार्थम् । तत्रानुत्पन्नपुत्रस्य विध्यन्तरान्नियम एव । २५ उत्पन्नपुत्रस्तु यथाकामी । अनृतौ प्रतिषिद्धे गमने भायेच्छया पुनः प्रतिप्रसूयते पर्ववर्ज व्रजेचैनां तद्रत इति । तदिति भार्यायाः प्रत्यवमर्शः । तच्चित्तग्रहणं व्रतमस्येति तद्व्रतः । रतिकाम्यया १ तत्तावत्यकं भवति, २ अनार्थिनच अनारभ्योऽर्थे उपदिष्टः स्यात् । 3 ब - वाऽशक्यत्वाद्याs पत्योत्पत्तिः । ४ ब-न हि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy