SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । २११ काल उच्यते । उपलक्षणत्वाच्च दर्शनस्य निर्वृत्तेऽस्मिन्वक्ष्यमाणकालानुवर्ती भवत्येव । तस्य काल ऋतुकालः । साहचर्याद्वा काल एव ऋतुः । तथा च समानाधिकरणसमासः । ऋतुकालेऽभिगन्तुं व्रतमस्येत्यृतुकालाभिगामी । “व्रते " इति णिनिः (व्या.सू.३।२।२०) यथा स्थण्डिलशायी अश्राद्ध भोजीति । स्याद्भवेदित्यर्थः । यद्यप्यस्तिपरा विधिविभाक्तस्तथाप्युपगमव्यापारं विदधाति 1 अभिगामी स्यादभिगच्छेदित्यर्थः । न ह्यनुपगच्छन्नभिगामी भवति । 1 कीदृशं पुनरेतद्रतं किमुतावभिगन्तव्यमेव अथर्तावेव गन्तव्यमिति एतदुक्तं भवति । किमर्यं नियम उत परिसंख्येति । ननु च व्रतमिति शास्त्रतो नियम उच्यते । तत्रैव चायं णिनिः । अतः परिसंख्या कथमाशंक्यते ? उच्यते । परिसंख्यायामपि शास्त्रीयत्वंनियमरूपता च विद्यत इति दर्शयिष्यामः । कस्तर्ह्यनयोर्विशेषः । विधिविशेषो १० नियमः । अथ विधिः कः । यः शब्दः कर्तव्यताबोधकः “अग्निहोत्रं जुहुयात्स्वर्गकाम:” इति । न ह्यग्निहोत्रस्यैतद्वचनमन्तरेणान्यतः कुतश्चित्कर्तव्यतावगमः । नियमः पुनर्यत्रादृष्टसिद्ध्यर्थस्य वचनमन्तरेण पाक्षिकी प्राप्तिः यथा “ समे यजेतेति " दर्शपौर्णमासादियागविधानाद्देशमात्रमाक्षिप्तम् । न हि कश्चिदेशमनाश्रित्य यागप्रयोगः संभवति । द्विविधश्च देशः समो विषमश्च । तत्र यदा तावत्समे यजेत तदैतद्वचनमनुवाद एव । १९ यदा त्विच्छाया निरङ्कुशत्वाद्विषमे यियक्षति तदैतद्वचनं समदेशं विदधदर्थवत् । विहिते समे विषमस्यानाश्रयणमविधानात् । एतत्सामर्थ्यात्तन्निवृत्तिः । विधिनिबन्धने ह्यनुठाने किमित्यविहितं क्रियेत तत्करणे हि न यथाचोदितानुष्ठान सिद्धिः । इदं चात्र स्मार्तमुदाहरणम्। “प्राङ्मुखोऽन्नानि भुञ्जीत । भुञ्जानस्य यदृच्छया यां कांचिद्दिशमाश्रित्य भोजनं प्राप्तं तत्र कदाचित्प्राची कदाचिदितरा या काचित्प्राप्ता तत्र यदा प्राची न २० तदेतरा, यदेतरा न तदा प्राचीति " । तत्राप्राप्तिपक्षे विध्यर्थं वचनं “ प्राङ्मुखोऽन्नानि मुञ्जीतेति" तत्रातिक्रमाच्छास्त्रार्थं जहाति । एवमिह यदृच्छयोपगमनमृतावनुपगमनं पक्षे विधीयमानमुपगमनमनुष्ठीयमानं शास्त्रातिक्रमकारितां जनयेत् । यथाऽन्ये शास्त्रविहितार्था - अतिक्रम्यमाणाः प्रायश्चित्तहेतवो भवन्ति तथाऽनुगमनम् । अथर्तावनृतौ च गमने राँगतः प्राप्ते वचनमृतावुपेयादिति । तदैवं वचनं मृग्यते ऋतावेवोपेयादनृतौ न गच्छेत् । २९ यथाँ पञ्च पञ्चनखा भक्ष्या इति क्षुत्प्रतिघातेनार्थेन शशकादिष्वपि पञ्चनखेषु भक्ष्यता प्रसक्ता तव्यतिरिक्तेष्वपि वानरादिषु । न च तत्र पर्यायेणैव प्रवृत्तिः । युगपत्तत्र चान्यत्र च प्रसक्तौ पञ्च पञ्चनखा भक्ष्या इति वचनमित र परिसंख्यानार्थं परिसंपद्यते । एवमिह परिसंख्येति । १ दृष्ट सिध्यर्थस्य २ ब - वेदतः ३ फ- अथ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy