________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ तृतीय नृशंसानते ते वदितुं शीलमेषामिति शब्दव्युत्पत्तिः । ब्रह्मधर्मो वेदधर्मो वेदार्थस्तं द्विषन्ति निन्दति वा न श्रद्दधते वा । अत एव दुर्विवाहेष्विति निन्दा ॥ ४१ ॥
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ॥ निन्दितैर्निन्दिता नृणां तस्मानिन्द्यान्विवर्जयेत् ॥४२॥
समासतो विवाहानां फलप्रदर्शनमेतत् । ये यस्य विवाहा विहितास्तेऽनिन्दितास्तैरूढानां या प्रजा पुत्रादिलक्षणा साऽनिन्द्या भवति प्रशस्येत्यर्थः । निन्दितैः प्रतिषिद्धैः निन्दिता गर्हिता । तस्मादुःखभागिनी प्रजा मा भूदिति निन्द्यान्विवर्जयेत् ॥ ४२ ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ॥ असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । ४३ ॥
पाणिग्रहणं नाम गृह्यकारोक्तः संस्कारः सवर्णासु समानजातीयामूह्यमानासूपदिश्यते शास्त्रेण विधीयते, कर्तव्यतया प्रतिपाद्यते । असवर्णासु यदुद्वाहकर्म तत्रायं वक्ष्यमाणो विधिज्ञेयः ॥ ४३ ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ॥
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ४४ ॥ बाह्मणेनोह्यमानया क्षत्रियया शरो ब्राह्मणपाणिपरिगृहीतो ग्राह्यः पाणिग्रहणस्थाने शरस्य विधानात् । प्रतोदो बलीवर्दानामायासः क्रियते येन वाह्यमानाः पीड्यन्ते हस्तिनामिवाङ्कुशः । वसनस्य वस्त्रस्य दशा ग्राह्या शूद्रया उत्कृष्टजातीयैाह्मणादिवर्णैवेदने विवाहे ॥ ४४ ॥
ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ॥ पर्ववर्ज व्रजेचैनां ततो रतिकाम्यया ॥ ४५ ॥
उक्तो विवाहः । तस्मिन्निवृत्ते समुपयाते दारत्वे तदहरेवेच्छयोपगमे प्राप्ते तन्निवृत्त्यर्थमिदमारभ्यते । न विवाहसमनन्तरं तदहरेव गच्छेत् किं तर्हि ऋतुकालं प्रतीक्षेत । गुह्यकारैस्तु "अत ऊर्ध्वमक्षारालवणाशिनौ ब्रह्मचारिणावधःशायिनौ स्यातां । त्रिरात्रं द्वादशरात्रं संवत्सरं वा” इति(आश्व.गृ.१।८।१०।११)पठितम् । तत्र सत्यपि संवत्सरस्यान्तराऽsपतितंऋतौ गमनं नास्ति । एवमस्मात्कालादूर्ध्वमसत्य॒तौ गमनं नास्ति । एवमेते स्मृती अविरोधिन्यौ भवतः । त्रिरात्रादीनां तु विकल्पः अत्यन्तरागपीडितयोर्गमनं धैर्यवतोस्तु ब्रह्मचर्यम।.
ऋतुर्नाम स्त्रीणां शोणितदर्शनोपलक्षितः शरीरावस्थाविशेषो गर्भग्रहणसमर्थः
For Private And Personal Use Only