________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
दैवेन विधिनोडा दैवोढा तस्यां जातो दैवोढाजः । सुतः पुत्रः । कः प्रजापतिः स देवता यस्य विवाहस्य स कायः । संस्कारकर्मणि ग्रहणलक्षणेऽसत्येव देवतासंबन्धे प्रमापतेर्देवतात्वमध्यारोप्यते भक्त्या । यदपि तत्र प्राजापत्यो यागोऽस्ति स तु विवाहसाधारणः न कायव्यपदेशे कारणम् । आसुरादिषु च न काचिद्गतिः स्यात् । न ह्यासुरेभ्यो विवाम्पो यागोऽस्ति । कायोढज इति हस्वत्वं “न्यापोः संज्ञाछन्दसोर्बहुलमिति " (ज्या.सू.६।३।६३)। ननु च यद्यन्न्यूनफलं तत्तत्पश्चानिर्दिष्टं तत्रार्षस्य प्राजापत्यात्पश्चादभिधानं युक्तम् । अस्त्यत्र कारणं येनाधिकफलस्य प्राजापत्यस्य पश्चान्निर्देशः " पञ्चानां तु त्रयो धर्म्या ” इत्यत्र प्राजापत्यस्य ग्रहणमिष्यते इतरथाऽऽर्षस्य स्यात् ॥ ३८ ॥ ब्राह्मादिषु विवाहेषु चतुर्व्वेवानुपूर्वशः ॥ ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसंमताः || ३९ ॥
च गुणागुणानित्युक्तं तदिदमनुपूर्वश
प्रसवे आनुपूर्व्येणेत्यस्मिन्नर्थे स्मृतिकारैः प्रयुज्यते । श्रुताध्ययनविज्ञानसंपत्तिनिमित्ते च पूजाख्याति ब्रह्मवर्चसम् । तद्वन्तो ब्रह्मवर्चसिनः । इन्नन्तोऽयम् । शिष्टानां संमता अनुमता अगर्ह्या अद्विष्टाः प्रिया इति यावद्यतश्चामत्यर्थत्वान्मतिबुद्धीत्यस्याविषयत्वेन तेन च पूजायामित्येतेन नास्ति समासप्रतिषेधः । संबन्धसामान्यविवक्षायां च षष्ठी ॥ ३९ ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ॥
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ४० ॥
२०९
१५
रूपं मनोहराकृतिः सत्वं नाम गुणो द्वादशे वक्ष्यते । ताभ्यामुपता युक्ताः । आढया धनवन्तः । श्रुतशौर्यादिगुणयुक्ततया ख्याताः यशस्विनः पर्याप्तभोगाः खगनुलेपनगीतबाद्यादिभिः सुखसाधनैरविकलैर्नित्ययुक्ताः । सुखसाधनैः पूर्वोक्तैरवियोगो भोगः स पर्याप्तो - २० ऽक्षतः समग्रो येषां ते पर्याप्तभोगाः । धर्मानुष्ठानतत्परा धर्मिष्ठाः । धर्मशब्दः केषां - चिद्गुणवचनः । अतो गुणवचनादित्यातिशायिकः । शतं वर्षाणि जीवन्ति ॥ ४० ॥ इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ॥ जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ४१ ॥
For Private And Personal Use Only
ब्राह्मादिव्यतिरिक्तेषु गान्धर्वादिविषाहेषु नृशंसमनृतं च वदन्ति नृशंसानृतवादिन: १९ नृशंसं मातृभगिन्यादावश्लीलाक्रोशवचनम् । अनृतं प्रसिद्धम् । नृशंसं चानृतं च
१
प्रजापत्ययोगोऽस्ति स तु विवाहादिसाधारण्येन कायव्यपदेशे कारणम् । २फ योगोऽस्ति ३–व्या. सू. ३ । २ । १८० ४ - व्या. सू. २ । २ । १२. ५ - अ. १२ श्लो. २४ । २६
२७