________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
मेधातिथिमाष्यसमलंकृता ।
[ तृतीयः अथवा अद्भिरेवेत्यवधारणेनार्षासुरप्राजापत्यानपवदति । तत्र हि न केवला आपः कारणं गोमिथुनादिद्रव्यग्रहणमपि संविव्यवस्था च । तेनैतदुक्तं भवति । यथा गोहिरण्यादि द्रन्य दीयते न किंचित्परिभाष्यते इयं गौस्त्वयैव संवाहनीयदृशानि तृणान्यपि देयानि एवं कन्यापि देया न दुहितृस्नेहेन जामाता परिभाषणं कारयितव्यः । न च तस्माद्धनं ग्रहीतव्यमिति ।
क्षत्रियादीना तु यदि कन्यावरयोः परस्परमभिलाषो भवति तदा दानं कर्तव्य नेतरथा ब्राह्मविवाहवत् । अन्ये तु व्याचक्षते धनं वा गृहीत्वाऽद्भिरेवेत्येष इतरेतरकाम्यार्थः । आस्मिन्पक्षे ब्राह्मणस्य सर्वविषयता ज्ञापिता भवति ॥ ३५ ॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः॥ सर्व शृणुत तं विप्राः सम्यक् कर्तियतो मम ॥ ३६ ॥
यदुक्तं " गुणदोषौ च यस्य याविति " तत्स्मारयति । बहवो वक्तव्यतया प्रतिज्ञातास्तत्र वक्ष्यमाणैः श्लोकैरयमर्थ उच्यत इति विशेषज्ञानार्थ युक्तः पुनरुपन्यासः । एषां विवाहानामिति निर्धारणे षष्ठी । एवं विवाहानां यस्य विवाहस्य यो गुणः
कीर्तित आचार्येण मनुना सर्व शृणुत तं गुणं विप्रा भृगुर्महर्षीनामन्त्रयते । सम्यग१५ वैपरीत्येनानाकुलं कर्तियतः कथयतः ॥ ३६ ॥
दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् ॥
ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् ॥ ३७ ॥ पूर्व वंश्या पितृपितामहादयः । अपरे पुत्रपौत्रादयः । तान्मोचयत्येनसो नरकादियातनाभ्य उद्धरति । ब्राझेन विवाहेन उढा तस्यां यो जातः पुत्रः स सुकृतकृत्पुण्यकृयदि भवति । पितृन्परलोकगतान् पितृशब्दोऽयं प्रेतपर्यायः न हि पुत्रादिसंततेरन्यथा पितृव्यपदेशसंभवः । दश शब्दः प्रत्येकमभिसंबध्यते पूर्वापरशब्दाभ्याम् । एकविंशकमिति निर्देशात् । अर्थवादश्वायम् । तेनागताननुत्पन्नान्कथं मोचयतीति न वाच्यम् । पूर्वेषां त्वपत्यकृतेन शुभेन श्राद्धादिना भवत्येव पापान्मोक्ष
इति श्राद्धाधिकारे कथयिष्यते । अतो दशापरानेनसो मोचयतीत्येतदुक्तं भवति २५ दशपुरुषा यस्मिन्कुलेऽपापा जायन्त इत्यौलम्बनम् ॥ ३७ ॥
दैवोढाजः सुतश्चैव सप्त सप्त परावरान् ॥ आर्षोढाजः सुतस्त्रीस्त्रीन् षट् षट् कायोढजः सुतः॥३८॥
१ ब नमःपूर्व २ व इतरेतरकाम्यया । न ३ कीय॑ते. । ४ फ सर्प
For Private And Personal Use Only