________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः मनुस्मृतिः।
२०७ हि मन्त्रवत्कर्तव्यं "विष्णुयोनि कल्पयतु" इति क्लृप्तायार्थ कल्पनमशक्यम् । तत्रायथार्थों मन्त्रप्रयोगः स्यात् । न चानूढायाः पैशाचधर्मे मन्त्रप्रयोगः उदायास्तच्छ्रवणात् । पैशाचपर्जमन्येषु विवाहेषु तत्कल्पयितुं युक्तमविशेषश्रवणात् । तस्मान्मुख्योपगमपक्ष एवमादयो बहवो दोषः प्राप्नुवन्ति । अत आलिङ्गनोपगृहनपरिचुम्बनादिषूपगमनार्थेषु व्यापारेषु साहपर्यात्तादर्थ्याच्चोपपूर्वो गमिर्द्रष्टव्यः। यत्तु “कानीनः पुत्र" इति तत्र मुख्यार्थासंभवाल्लक्षणया ५ संस्कारमावप्रतिपत्तिः । यत्तु संस्कारदर्शनं तत्तु क्वचिदेव । यद्यपि या गर्भिणी सस्क्रियते झाताऽपि चेति तत्र य एवोपगन्ता स एव संस्कर्ता । न त्वसौ पैशाचो विवाहः । पैशाचे हि येनैव समुपभुक्ता यस्मा एव दीयते । स एवैनां संस्करोतीति । गर्भिण्यास्तु संस्कारो वाचनिकः । एतच्च सर्व निपुणतरं पुनर्नवमे वक्ष्यते ।
अपरे मन्यन्ते। सत्यं मुख्यमुपगमनममुख्यत्वे तु गमनप्रतिषेधानुपपत्तिरिति यदि हि १ मुख्यमुपगमस्तदा स एव विवाहोऽन्यस्यानन्तरोक्तेन न्यायेनाभावात् । ततश्च नास्ति तस्य प्रतिषेधम्य विषयो यतः इच्छया गान्धर्वो हठाद्राक्षसोऽन्यथा पैशाचः । न चान्यः प्रकारोऽस्ति येन सर्वविषयप्रतिषेधः स्यात् । अस्ति त्वस्य विषयः यत्र हठाद्रहसि गमनं या वा पितृभ्यां दीयते न चोपसंस्क्रियते । ना चासौ तेषामपि गान्धर्वः कन्येच्छाया अभावात् । अत एव भर्तुरपि न कन्यागामित्वं विषयान्तरस्य १६ संभवात् । तस्मात्क्षतयोन्याः संस्कारनिषेधाद्ब्राह्मादिवदुपायत्वात्तद्वच्च विवाहशब्दोपपत्तेः प्रकरणसामर्थ्यागौण एवोपगमार्थः ।
__ एषांच भेदः अप्रार्थितोपनतो भूमिहिरण्यादिवद्राह्मः। ऋत्विक्त्वेन विशेषेण दैवः। गोमिथुनेनार्षायाच्याऽयाच्या वा सहोभौ चरतां धर्ममिति वचनव्यवस्थया प्राजापत्यः। शेषाः सुबोधभेदाः । ब्राह्मादीनामिदमर्थे तद्धितः ब्रह्मादिसम्बधिता च स्तुत्याऽऽरोप्यते । २० एवं सर्वेषु । पैशाचः पिशाचानामयं युक्त इति निन्दा ॥ ३४ ॥
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ॥
इतरेषां तु वर्णानामितरेतरकाम्यया ॥३५॥ द्विजाग्र्याणां ब्राह्मणानां कन्यादानं कन्यां ददतामद्भिरेव दानं शस्यते । ब्राह्मणाय यदा कन्यां ददाति तदाऽद्भिरेव दद्यात् । कथं पुनरापोदानकरणम् । न हि २५ तामिर्विना दानमस्ति "अद्भिर्वाच्यं न मे पूर्व भिक्षा दानं ददाति वै । एवं धर्मोष्वति" नियमात् ।
१फ-अकल्पनम् २ फ-सर्वे
For Private And Personal Use Only