________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ तृतीयः सुप्तां मत्तां प्रमत्ता वा रहो यत्रोपगच्छति ॥ स पापिष्ठो विवाहानां पैशाचः प्रथितोऽधमः ॥ ३४॥
राक्षसपैशाचयोरनिच्छा तुल्या। राक्षसे हननं, पैशाचे वञ्चनम् । सुप्तां निद्रयाऽभिभूताम् । मत्तां क्षीबा मद्यपरवशाम् । प्रमत्ता वातसंक्षोभेण नष्टचेतनाम् । रहोऽप्रकाशमुप ५ गच्छति मैथुनधर्मे प्रवर्तते स पैशाचो विवाहः सर्वविवाहानां पापिष्ठः पापहेतुः धर्मा पत्यं न ततः संपद्यते ॥
इह गान्धर्वराक्षसपैशाचानां प्रकृतविवाहमामानाधिकरण्यासंयोगहरणोपगमा एव पाणिग्रहणसंस्कारनिरपेक्षा विवाहा इति मन्यन्ते । तेषां ब्राह्मादिष्वपि दानविवाहयोः सामानाधिकरण्यात्संस्कारो विनिवर्तते । यथा च न निवर्तते तथा दार्शतम् । लक्षणया विवाहप्रयोजनदाने विवाहशब्दः । गान्धर्वे तु भगवता कृष्णद्वैपायनेन दुष्यन्तशकुन्तलासंगमने वर्णितम् “ अनग्निकममन्त्रकं " इति । तदर्शनेन पाणिग्रहणसंस्कारोऽस्ति वर्जितस्तु पैशाचे । ___ पुनर्विवदन्ते मुख्य चोपगमनं च कन्यात्वमपैति संस्कारैम्तद्विनिवर्तनात् ।
अतश्च "पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः" (अ. ८ श्लो. २२६ इतिप्रतिषेध१५ स्याप्रवृत्तेरस्त्येव मन्त्रवत्संस्कारसंबन्धः । स च प्रतिषेधः कृतः संस्कारप्रतिषेधार्थः । सा हि
मन्त्रैः संस्कृतत्वाव्यपगतकन्याभावा । अत एव भवतु प्रथममुपगमस्ततोऽकन्यादोषो नास्ति । तथा च कानीनः कर्ण इति दर्शनम् । यदि तु पुरुषप्रयोगेण कन्यात्वमपेयात्कथमियं वाचो युक्तिः कन्यायाः पुत्रः कानीन इति । अथत्वसंस्कृता कन्योच्यते ततो युक्तम्
"कर्णादयो ह्यनूढायाः पुत्रा" इति मुख्येऽभ्युपगमने कन्याया अपत्योत्पत्तेः संभवः । २० वर्णते चेतिहासादिषु तथाभूताया विवाहः
अथ मद्यमदादिना निवृत्ते रतिसंबन्धे किमर्थः संस्कार इति । अत्रोच्यते । यद्यपि स्त्रीपुंसधर्मो निवृत्तोऽतिक्रान्तश्च कन्यागमनप्रतिषेधस्तथापि तया सहाधिकारार्थ पुनश्च गमने कन्यागमनं मा भूदिति तदर्थ संस्कारकरणम् । कन्यागमनप्रतिषेधातिक्रमसंबन्धेन
पुरुषार्थतयाऽपि निन्द्यते विवाहोऽयं तदयुक्तम् । यतोऽयं लोके कन्याशब्दः पुंसाऽसंप्रयुक्तां २५ स्त्रियमाचष्टे न संस्कारभावसापेक्षाम् । अकृतसंस्कारा अपि पुरुषैः क्षतयोनयो न
कन्या इति व्यवह्रियन्ते । तासां चे वेशश्रितानां गमने न कन्यागमनदोषः । यद्यपि कुमारीकन्याशब्दौ प्रथमवयोवचनाविष्येते तथापि विवाहविधावनुपभुक्तपूर्वामेव स्त्रियमाचक्षते । तथा च कुमारवेशधारिणी नातिप्रकाशप्रवृत्तपुंसं प्रयोगां भार्यात्वेनार्थयमानो न्यैरवबोध्यते नैषा कुमारी नष्टोऽस्याः कौमारो भावः संस्कारपरिलोपश्च स्यात् गर्भाधानं १ड-विवाहस्य २ब सापेक्ष्यम् ३ ब-वेषदूषितानाम्
For Private And Personal Use Only