________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । प्रकृतत्वादनुच्चारणम् । तथा च गौतमः (अ.४ सू.५) "प्राजापत्ये सह धर्म चरतामिति" मन्त्रः । मन्त्रग्रहणेन चैतदर्शयत्यधिकृतरूपमेव प्रयोक्तव्यं मन्त्रवत् । न हि महासत्वानामर्थकामविषये सहितत्वं परिभाषितुं युक्तम् गम्यते तु स्मृत्यन्तरेभ्यः। अनयैव संविदा दोषेणास्य न्यूनता आस्ति यत्र दातुर्वरादुपकारलिप्सा । स्वशब्देनैतद्वचनं वाच्यते । न पुनरयं दातुरेव वचननियमः । अनुभाष्येत्यनेमैव सिद्धत्वाद्धाचेत्यनर्थकं स्यात् । अनुभाषणे वागिन्द्रियस्य साधनत्वात् । तथा च गृहकारः । “ एतद्वः सत्यमित्युक्त्वा वरं वाचयेदेतन्नः सत्यमिति " । अनुशब्दश्च प्राप्तार्थस्यैव वाचा निश्चयमाह ॥ ३० ॥
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ॥
कन्यादानं स्वाच्छन्यादासुरो धर्म उच्यते ॥ ३१ ॥ शातिभ्यः कन्याया एव पित्रादिभ्यः फन्यायै च स्त्रीधनं दत्वा कन्याया आप्र- १. दानमानयनमासुरो विवाहः । स्वाच्छंद्यात् स्वेच्छातो न शास्त्रत इत्याद्भेिदमाह । तत्र हि शास्त्रं नियामकमस्ति । एक गोमिथुनमिति । इह तु कन्याया रूपसौभाग्यादिगुणापेक्ष छन्दः ॥ ३१॥
इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च ॥
गान्धर्वः स तु विज्ञयो मैथुन्यः कापसंभवः ॥ ३२ ॥ इच्छया च वरस्य कुमार्याश्च प्रीत्या परस्परसंयोग एकप्रदेशे संगमनम् । तस्येयं निन्दा मैथुन्यः कामसंभवः । मिथुनप्रयोजनो मैथुनः । तस्मै हितो मैथुन्यः । एष एवार्थो विस्पष्टीकृतः कामसंभव इति। संभवत्यस्मादिति संभवः । कामः संभवोऽस्येति ॥३२॥
हत्वा छित्त्वा च भित्वा च क्रोशन्ती रुदती गृहात् ॥
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३३ ॥ प्रसह्याभिभूय कन्यापक्षाबलात्कारेण कन्याया हरणं राक्षसो विवाह इत्येतावदत्र विवक्षितम् । हत्येत्याद्यनुवादः । प्रसह्यापजिहीर्षतो यदि कश्चित्प्रतिबन्धो वर्तते तदा प्राप्तमेव हननादि । हन्तुः शक्त्यतिशयं ज्ञात्वा स्वात्मभयादुपेक्षेरंस्तदा भवत्येव राक्षसो न वधाद्यवश्यं कर्तव्यम् । हत्वा दण्डकाष्ठादिना ताडयित्वा । छित्त्वा खङ्गादिप्रहारेणाङ्गानि खण्डशः कृत्वा । भित्वा प्राकारपुरदुर्गादि । क्रोशन्ती रुदती कन्यामनिच्छाम् ।अयं गान्धर्वा- २९ द्विशेषः । अनाथापहिये परित्रायध्वम् ' इत्याधुच्चैः शब्दकरणं क्रोशनम् । रोदनमश्रुकणमोक्षः । उद्विमितायाः स्त्रिया धर्मोऽयम् ॥ ३३ ॥
१ड-विषयं २ अ-क--फ-क्ष-ख-अर्थात् ३ ब-एकत्र देशे
For Private And Personal Use Only