SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ मेधातिथिमाष्यसमलंकृता । [तृतीयः मन्त्राः । यत्तु स्वकरण इति तन्न विरुद्धम् । विवाहस्याप्यस्ति स्वकरणरूपता। दानेन स्वत्वमात्रे प्रतिपन्ने विवाहेन विशिष्टं स्वत्वं क्रियते । नेयं गवादिद्रव्यवत्स्वं यथेष्टविनि. योज्यतया अपि तु जायात्वेन । विशिष्ट एव हि स्वस्वामिभावो जायापतिलक्षणसंबन्धः । तथा च दर्शयिष्यति । " मङ्गलाथै स्वस्त्ययनं............विवाहेषु प्रदानं ५ स्वाम्यकारणमिति " ॥ २७ ॥ यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ॥ अलंकृत्य सुतादानं दैवं धर्म प्रचक्षते ॥ २८ ॥ वितते प्रारब्धे तन्त्रे ज्योतिष्टोमादौ यज्ञे तत्कर्मकारिण ऋत्विजेऽव॑र्यवे सुताय दुहितुर्दानम् । अलंकृत्येत्यनुवादः । कन्यादानस्य सर्वस्यैवरूपत्वात् । “ आच्छाद्यालंकृतां विवाहयेदिति' सामान्योऽयं विधिः। ननु गौश्चाश्चश्चाश्वतरश्चेत्यावृत्विग्भ्यो दक्षिणात्वेन श्रुतम् न क्वचित्कन्यादानं क्रत्वर्थतया चोदितम् । किमत्र क्रत्वर्थतया प्रवृत्ते यज्ञ ऋत्विजे यां ददाति स दैवो विवाहः । आस्ति चोपकारगन्धस्तदीयकरणम् । अकर्मोद्देशेनापि दीयमानं तत्कर्मकरणप्रवृत्तस्य जनयत्येवानुमानविशेषम् । एतावतोपकारसंबन्धेन ब्राह्मादेवो न्यूनः ॥ २८ ॥ एक गोमिथुनं वे वा वरादादाय धर्मतः॥ कन्याप्रदानं विधिवदार्षों धर्मः स उच्यते ॥ २९ ।। स्त्री गवी पुङ्गवश्च मिथुनम् । एकं द्वे वा वराद्गहीत्वा कन्याया दानमार्षो धर्मः ।धर्मत इति धर्म एवायं नात्र विक्रयबुद्धिः कर्तव्या उच्चनीचापाकरणाभावादित्यभिप्रायः ॥२९॥ सहोभौ चरतां धर्ममिति वाचानुभाष्य च ॥ कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३० ।। सह धर्मो युवाभ्यां कर्तव्य इति वंचनेन परिभाषां कृत्वा नियम्य यंदानं स प्राजापत्यः । धर्मग्रहणमुपलक्षणार्थम् । धर्मे चार्थे च कामे च तुल्ययोगक्षेमतेति मिथोऽस्य परिभाषावचनस्यार्थः । धर्मशब्द एवोच्चायते सह धर्मश्चर्यतामिति न तु धर्मार्थकामाः सहेति । स तु धर्मशब्दः स्मृत्यन्तरवशादर्थकामयोरुपलक्षणार्थो व्याख्यातः । यद्येनां नाति२५ चरसि धर्मार्थकामेषु तदा तुभ्यमियं दीयत इति कृतसंवित्कायाभ्युपगततदर्थाय विवाहकाले यद्दानं तत्रैवं समुच्चारयितव्यं सह धर्म चरतामिति।अर्थकामयोरभिप्रेतेऽपि सहत्वे तद् १ अ. ५ श्लो. १५२ २ ड अध्वय ३ अबड-उच्चनीचपणाभावात् । ब-कक्षखत ५ ड-नियम्य सहस्वं यद्वानं अक्ष-सहस्व-क-स्व For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy