________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः मनुस्मृतिः ।
२०३ विवाहे परिणयते कांचिद्राक्षसेनेत्येष मिश्रपक्षः अथवा सर्वा एवान्यतरेणेति पृथक्पृथक् अनेन चैतज्ज्ञायते । क्षत्रियस्यानयोरेवानियमेन प्रवृत्तिः प्राजापत्यादीनां तु य एव प्रथमकृतस्तेनैवान्याऽपि विवाह्या ॥ २६ ॥
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ॥
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥२७॥ इदानीं स्वरूपमेतेषामाह । आच्छाद्येति। आच्छादनविशेषोऽभिप्रेतः अन्यस्यौचित्येनैव प्राप्तत्वात् । उत्कृष्टेनाच्छादनेन यथादेशं यथासंभवं यथायोग्येन वाससा परिधाप्य । अर्हयित्वा अनेनालंकरणकटककणिकादिना प्रीतिविशेषसत्कारविशेषैरर्चनं कृत्वा । एतेनाच्छादनाहणेन कन्याया वरस्य चान्यतरसंबन्धे प्रमाणाभावाददुभयोपयोगः कार्यः । श्रुतशीलवते अन्येऽपि स्मृत्यन्तरोक्ता वरगुणा द्रष्टव्याः “युवा धीमाञ्जनप्रियः । यत्ना- १० त्परीक्षितः पुंस्त्व'' इति । स्वयं प्रागयाचितः स्वपुरुषप्रेषणैराहूयान्तिकदेशमानाय्य वरं यद्दानं स ब्राह्मो धर्मो विवाहः । अविशेषवचनोऽपि धर्मशब्दः पूर्वीपेक्षितत्वादस्य तत्पर एव द्रष्टव्यः । अयाचितलाभोऽभ्यर्हणापूर्वको ब्राह्मो विवाह इति लक्षणार्थः ।
ननु चेदमयुक्तं स्त्रीस्वीकारार्थो विवाह इति यावद्विवाहपर्यन्तं चैतद्दानम् । नाकृते विवाहे दानार्थनिवृत्तिः । स हि तस्याः प्रतिग्रहकालः । न चासति परिग्रहे दानं परि- १५ समाप्यते न स्वत्वनिवृत्तिमात्रं दानं परस्वत्वापत्तिपर्यन्तं हि तत् । तथा च वक्ष्यति " तेषा तु निष्ठा विज्ञेयां विद्वद्भिः सप्तमे पदे " इति ।
एवं विवाहकाल एव कन्या दातव्या । तथा च गृह्यकारस्तस्मिन्नेव काले ब्राह्मविवाहे काण्डिकधर्म दर्शयति ।
__ यत्तु प्राग्विवाहादानं तदुपसंवादनवाचनमात्रम् । न हि तस्मिन्नक्रियमाणेऽभिप्रेतकाले- २० ऽवश्यं विवाहनिर्वत्तिः कश्चित्प्रागनिरूपिते न दद्यादपि इतरो वा कदाचिन्न प्रतिगृह्णीयात् तस्मात्प्राग्विवाहादुपसंवादः कर्तव्यः तदा त्वयेयं देया मया चेयं वोढव्येति यथैवान्तःक्रतुः सोऽपक्रियोऽचोदिततत्सिद्धार्थोऽर्थावहिप्क्रियते ।
ये तु मन्यन्ते यथैव गवादेव्यस्यादृष्टार्थतया दीयमानस्य मन्त्रपूर्वकेण प्रतिग्रहेण दानमपि निवर्तते तेनैवेदमुक्तं ददातिषु चैवं धर्मेष्विति । एवं चेह प्रतिग्रहमन्त्रस्थानीयो विवाह २५ इति । तथा च उपयमनं विवाह इत्येकोऽर्थः । उपयमनं च स्वकरणम् । एवं ह स्म भगवापाणिनिः स्मरति (व्या.सू.१।३।५६) “उपाद्यमः स्वकरण" इति । अतो विवाहः कन्यास्वीकामर्थः । तद्युक्तम् । स्वीकृताया विवाहो मार्याकरणार्थः । नानेन कर्मणा प्रतिगृह्णीयादिति विधिरस्ति ! न च वैवाहिका मन्त्रा प्रतिग्रहप्रकारकाः यथा “देवस्य त्वा प्रगृह्णामीति"
फ-श्रुति । २ यासव• भाचारे ५५ । । उ-संक्षेपार्थः 7 अ. ५ श्लो- १५२
For Private And Personal Use Only