________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२ . मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः त्प्रभृति तयोर्विवाहौ धौ । द्वौ न कर्तव्यौ पैशाचश्चासुरश्च प्राजापत्यः क्षत्रियादीनामप्राप्तोऽपि विधीयते । राक्षसोऽपि वैश्यशूद्रयोः । आसुरपैशाचयोः प्रतिषेधः ।।
__इयमत्र व्यवस्था । ब्राह्मणस्य षडिवाहास्तत्र ब्राह्मः सर्वतः श्रेष्ठस्ततो न्यूनौ दैवप्राजापत्यौ ताभ्यामप्यार्षस्ततोऽपि गान्धर्वस्ततोऽप्यासुरः। येषामयं श्लोको ब्राह्मणविषयोऽपि तेषां ५ राक्षसोऽपि ब्राह्मणस्य क्षत्रियवृत्ताववस्थितस्य भवति विकर्मस्थस्यापि वधभेदनाभ्यां प्राय
श्चित्तीयतो राक्षसो न विवाह इति ते मन्यन्ते । तद्ब्राह्मस्य श्रेष्ठ्यं फलेनैव दर्शितम् । निषेधाभावेन चेतरेषां त्रयाणां न्यूनता फलापचयवचनादेव । आसुरस्य पुनर्वैश्यशूद्रयोर्विधानेन परिसंख्या ब्राह्मणक्षत्रिययोः प्रतीयते । षडिति च विधानम् । अतो विकल्पः । स च व्यवस्थया इतरासंभवेन तस्याश्रयणं तुल्यम् । विकल्पो हि व्रीहियववदनेकविवाहविधानेन च समुच्चयासंभवादेव सिद्धः । सति वा संभवे क्रियेत चेत्तथापि धर्मापत्ययोन्यूँनफलोऽसौ । अथ क्षत्रियस्य राक्षसो मुख्यश्चतुर्भिः श्लोकैरविकल्पेन विधानात् । चतुर इत्यनेनासुरगान्धर्वपैशाचा अपि राक्षसं क्षत्रियस्यैकमित्यनेन ते प्रतिषिद्धः । अतो विकल्पिता न मुख्याः । प्रकृतापेक्षत्वाच्च राक्षसैकविधिः । प्राजापत्ये नास्ति परिसंख्यानम् । अतः प्राजापत्योऽपि
क्षत्रियस्य राक्षसतुल्यः । एवं वैश्यशूद्रयोरपि प्राजापत्यो नित्यवदाम्नातो न प्रतिषिद्धः । १५ आसुरपैशाचौ तुतयोर्विहितप्रतिषिद्धौ। राक्षसोऽप्यराक्षसानित्यनेन प्रतिषिद्धः । त्रयो धर्त्या इत्यनेन विहितः । ब्राह्मणस्य पैशाचो नैवास्ति ।क्षत्रियादीनां ब्राह्मदैवार्षा इति स्थितम्॥२५॥
पृथक्पृथवा मिश्रौ वा विवाहौ पूर्वचोदितौ ॥ गान्धर्वो राक्षसश्चैव धयों क्षत्रस्य तौ स्मृतौ ॥ २६ ॥
पृथक्पृथगित्यनुवादः पूर्वेणैव सिद्धत्वात् । मिश्राविति विधीयते निरपेक्षायाँ २० इतरेषां गान्धर्वराक्षसयोर्विहितत्वात् । व्रीहियववदप्राप्ते मिश्रणवचनमिदम् । व्रीहिभिर्यजेत
यवैर्वेत्येकयागप्रयोगविषयत्वेनेतरेतरानपेक्षद्रव्यविधानाद्विकल्पो न मिश्रीभावः । मिश्रीभावे हि न व्रीहिशास्त्रार्थोऽनुष्ठितः स्यान्न च यवशास्त्रार्थः । एवमिहैकस्यां कन्यायां स्वीकर्तव्याया युगपदुपायद्वयमप्राप्तं विधीयते । तस्य विषयो यदा पितृगेहे कन्या तत्रस्थे कुमारेण कथं
चिदृष्टिगोचरापन्नेन दूतीसंस्तुतेन इतराऽपि तथैव परवती न च संयोगं लभते तदा वरेण २५ संविदं कृत्वा नय मामितो येनकेनचिदुपायेनेत्यात्मानं नाययति स च शक्त्यतिशयाद्धत्वा
छित्त्वा चेत्येवं हरति तदेच्छयाऽन्योन्यसंयोग इत्येतदप्यस्ति गान्धर्वे रूपं हत्वा छित्त्वेति च राक्षसरूपम् । तावेतौ विवाही क्षत्रियस्यैव भवतः । धम्यौं क्षत्रियस्य तौ पूर्वचोदितावित्यनुवादः । अन्ये त्वाहुः यः क्षत्रियो बहुविवाझन्कुरुते स कांचिगान्धर्वेण
१९- विमिश्रौ वा २ - निरपेक्षयोः
For Private And Personal Use Only