SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ] www.kobatirth.org मनुस्मृतिः । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥ गान्धर्वो राक्षसचैव पैशाचचाष्टमोऽधमः ॥ २१ ॥ संख्यायाऽष्टौ 'व्युद्दिष्टानां नामधेयानीमानि । अधमग्रहणं पैशाचस्य निन्दार्थम् ॥२१॥ यो यस्य धम्र्यो वर्णस्य गुणदोषौ च यस्य यौ ॥ तद्वः सर्व प्रवक्ष्यामि प्रसवे च गुणागुणान् ।। २२ ।। Acharya Shri Kailassagarsuri Gyanmandir धर्मादनपेतो धर्म्यः शास्त्रविहित इत्यर्थः । यस्य च विवाहस्य यौ गुणदोषौ इष्टानिष्टफलहेतुत्वाद्गुणदोषौ । प्रसवेऽपत्यजन्मनि । गुणा गुणाः अगुणो दोषः । वोरेव स्वर्गनरकादिलक्षणौ गुणदोषौ तत्प्रयोजनमर्थात्स्वर्गादिकम् । या ईदृशा एव भवंति गतार्थमपि भूयः प्रतिपत्तये कथयन्ति ॥ २२ ॥ षडानुपूर्व्या विप्रस्य क्षेत्रस्य चतुरोऽवरान् ॥ विशूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान् ॥ २३ ॥ षड्विाहा ब्राह्मणस्यानुपूर्व्या आनुपूर्वी क्रमं नामोद्देशः क्रमम् । क्षत्रस्य क्षत्रि यवचनः क्षत्रशब्दः । तस्य चतुरोऽवरानुपरितनानासुरगान्धर्वराक्षसपैशाचान्विद्यात् । वैश्यशूद्रयोस्तानेवाराक्षसा राक्षसं वर्णयित्वा ॥ २३ ॥ चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ॥ राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ २४ ॥ पञ्चानां तु यो धर्म्या द्वावधयौं स्मृताविह ॥ पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन ।। २५ ।। २०१ १ ड - अष्टावुद्दिष्टानाम् २ फ - उद्देशक्रमेण । २६ आसुरगान्धर्वयोरर्यं निषेधो ब्राह्मणस्य पुनर्ब्रह्मादिविधानेन । एवं क्षत्रियस्य राक्षस एवैको न गान्धर्वासुरौ आसुर एव वैश्यशूद्रयोः । विहितप्रतिषिद्धानां विकल्पः । ततश्च नित्यवद्विहिताभावे विकल्पितेषु प्रवृत्तिः । यस्य च यो विहितः स तद्विवाहाभावमनपेक्ष्य प्रथमत एव यदि विहितप्रतिषिद्धेषु प्रवर्तेत तत्र पुरुषो दुष्येदपत्यं चानभिप्रेतमुत्पयेतेति २० शास्त्रकारेण दर्शितं प्रसवे च गुणागुणानित्यादिना न तु सपिण्डादिपरिणयनविवाहस्वरूपा निवृत्तिः ॥ २४ ॥ For Private And Personal Use Only १० १५ क्षत्रियादिविषयेयं स्मृतिर्न ब्राह्मणविषया राक्षसे विरोधात् । न हि वधभेदने ब्राह्मणः २५ कर्तुमर्हति भस्याचरणस्य क्षत्रियादिविषयतयोपपत्तेः । पञ्चानां तु विवाहानां प्राजापत्या
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy